(१)
पश्य विद्वत्सभां तत्र
याति काक: कथङ्कारम्,
प्राप्ते वसन्तकाले ऽपि
रौति पिक: कथङ्कारम्॥
(२)
कीलकचिह्नव्याजेन
चित्राणि स्मराम्यहम्,
स्मरणदंशव्यथितस्ततः
तानि विस्मर्तुमिच्छाम्यहम्॥
(३)
चित्रिता मया भित्तय:
तत्र मार्जनं नेच्छामि,
कारामुक्तो तथापि
बहिर्गमनं नेच्छामि ॥
(४)
अतिविशिष्टजनान् दृष्ट्वा
बहिनिर्गच्छतीशः,
गर्भगृहस्थधनाढ्यान्
पङ्क्तिबद्धः पश्यतीशः ॥





