राम! पुनरायाहि!
सत्य-संयम-शौर्य-सित-सुखधाम! पुनरायाहि!
रावणीसन्ततिर्भूमौ वर्द्धते हा,
वेदनाभिर्नृलोकोsयं स्पर्द्धते हा,
सौरभं दूरंगतं भो मानवानां
दानवीदुर्गन्धिरिह परिवर्द्धते हा!
प्रस्थि...
कमलसुकोमलमानसमन्दिरवासिनि! विष्णुपदीविनुते
निखिलजगत्सकलापदमात्मबलेन विखण्डयितुं निरते |
जय जय कोसिनदी-विमलाम्बु-विचुम्बितशु द्धपद...
नवं च पुष्पं सुलता नवा सा
नवस्सुगन्धिर्नवचञ्चरीकः।
नवं च दृश्यं नवदं सदा नः
नव...
हृद्यमादौ च वेदनामन्ते
ब्रूहि के केSSधुना समीहन्ते ।
इन्द्रजालं प्रवर्तते मित्र !
सर्षप...
अये मातर्विश्वं सृजसि समये पासि नितरां
तत: संहारं त्वं कुरुष इति सन्तोऽजडधिय:।
वदन्त्येवं सत्यं मम मनसि पृच्छा परमियं
यदीयकृपयाऽखिलं जगदिदं सदा नीरसं
विभाति सरसं रसान् वहति या च ताञ्श्चोतति।
यदीयगुणवाटिका बहुसुमा सिता शाटिका
सुगन्धयति मानसं हरति सा जयेच्छारदा॥१
युनक्ति सुपदं पदं परिनिषेव्य यस्याः कविः
सदैव ...
अम्ब ! बिम्बमपि दर्शय !
अम्ब! बिम्बमपि दर्शय !
हृदयमरौ निजविमलवचोभिर्नवपीयूषं वर्षय!!
बाल्यादेव जपन्ती नित्यं
नामरसं रसना,
सम्प्रति शुभविस्रम्भयुता
जाता कोमलवचना,
जननि ! जनय हृदि शुभरागम...
यावज्जीवनमनिशं मनुजो
रटति धनं हा धनम्,
परमन्ते लिख्यते सूच्यते
केवलमिह नि-धनम्,,,,,कबीरा इत्थमुवाच सखे !
कोषागारे कोषविशेषः
सदने कुलसकलम्
यद्यद्यथायथं तल्लभते
अरे कृतस्य फलम् ,,,,,,,कबीरा ...
अयि कालिदास! महाकवे! रघुवंशकीर्तननिर्झरी
श्रीरामगीतिधरा मनोज्ञा भव्यभावविभाकरी
हरते प्रिया मृदु तेऽद्भुता रचना मनस्तु विभावरी
हरमर्चितुं सक्ता मनोनिलयं विशन्ती मनोधरी।। १
न विलोक्यते कण्वाश्र...
समायात: पुनस्साकेतमवधेश: सुखं मन्ये
प्रसन्ना पद्मिनी दिननाथमवलोक्याधुना मन्ये।
चतुर्दशवर्षवनवासो$भवत्त्रेतायुगे बन्धो
चिरात्तम्बूनिवासादागमो$स्त्यधुना सुखं मन्ये।।
वने दु:खं सुखं कृत्वा स्थित...