मामकभारतम्
न लुण्ठने वा परवंचने वा
न पातकोत्कोचधनाग्रहे वा।
परन्त पापं हि पलाण्डुभक्षणे
तथाद्भुतं भारतमामकं भोः ।
धनं मृदस्तीह तथा च हेयं
करोतु दानं त्विति बोधनाय
धनं प्...
अयि पामर! नीच! कृतघ्न! रिपो!
कृतवान् किमिदं प्रतिवेशिरिपो! १
खलभावनया सह खेलसि भो:!
मदमत्सरदुर्गुणकोष! रिपो! २
मधुरं बहु जल्पसि सम्मिलित:।
किमु निन्दसि दूरगतो न रिपो! ३
शृणु भारतराष्ट्र...
यश्शिष्यमानसतमो हरते त्वजस्रं
ज्ञानं प्रयच्छति गभीरनिगूढतत्वम्।
ईशस्थितिर्विभुरसौ भुवि मान्यमान्यस्
तस्मै दयालुगुरवे प्रणतिर्न कस्य। १
यस्मिन् वसन्ति विधिरच्युत ईशदेवो
बोधं सृजन्नुपदिशन् हरत...
जयन्तु वीरसैनिका:,
सदैव शौर्यशालिन:।
भवन्तु राष्ट्ररक्षका,
अशेषदुष्टघातिन:।।
चलन्तु पाकदेशकम्,
हरन्तु तत्र संस्थितान्।
प्रभीतिकारिणो रिपून्,
जघन्यपापचारिण:।।
भवन्तु युद्धजेतृका:,
स्वमा...
रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।
तथा च शोकाकुलजानकीयम्
पुनःसमागच्छतु राघवेन्द्र !
,,,,,,,,
निशाचराणां खरदूषणानाम्
अटन्ति लुण्ठन्ति भृशं द...
विद्याधिदैवतसुरम्यविलासभूमिः
येयं निसर्गसुषमाहितराजधानी।
सातङ्कवादगडिता व्यथिता त्वजस्रं
चैतत् प्रवीक्ष्य जगती किल रोदितीति।।
विश्वात्ममारकमिदं सुलभावकाशञ्
चातङ्कवादजनितं गरलाभिधानम्।
तत्ता...
गणपतिवन्दना होलीगीतिः
मङ्गलकरण गणेश गौरीतनय नमामि।।
मङ्गलकरण,=====.।
प्रथमसुपूज्यो दैवतवृन्दे
सदयः स्याः सदा ...
(कथा)
अद्य प्रिया विद्यालयं न गतवती। माता अप्रच्छत्, प्रिये! किम् अद्य विद्यालये अवकाश:? अप्रसन्नमनसा प्रिया अवदत्," नहि, मात:! अद्य अवकाश: तु नास्ति किन्तु गन्तुं मनो नासीत्, ए...
प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा
भवन्त्येते नित्यं रविरपि च चन्द्रायत इति।। १
जलं स्प्रष्टुं हस्त: सरति मम...
त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति सकललोके तीर्थराजः प्रयागः।।
सुखमयपरलोकादाशु देवाः सदेहाः
भुवि विषयविरक्ता य...




