जयतु संस्कृतम्
इयं होलिका श्रेयसे स्यात् समेभ्य:
रमन्तां समे रागरङ्गेण साकं,
सुचित्ते भवेद्हार्दभावोSपि नित्यं।
मिथो भावयद्भव्यरूपेण होल्यां
भृशं सख्यरङ्गेण लोका: रमन्ताम्।।
इयं होलिका रङ्गपर्व प्रसिद्धा,
सुसख्येन चाहं त्वया रञ्जनीय:
सुचित्तं मदीयं त्वदीयं नितान्तम्
सदा हार्दभावै: प्रपूर्णं भवेत् तत्।।
निवृत्तिर्भवेच्छत्रुतायाश्च लोके
प्रवृत्तिर्भवेन्मित्रतायां च लोके।
महादु:खभारेण मुक्ता: जना: स्यु:
इयं होलिका श्रेयसे स्यात्समेभ्य:।।
करे रंगमादाय मन्दं हसन्ती
सुवेषास्ति कॉलेज-बाला चलन्ती।
परेषां सुचेतांसि हा! कम्पयन्ती
विमुग्धा सखीभिस्समं क्रीडयन्ती।।
क्षणे खेलने होलिकायां सुवर्णै:
विलोला सुलीलान्विता मोदमाना।
कृतक्लिन्नवस्त्रा सुशीत्कारयुक्ता
बलाल्लीलया न: सुसम्मोहयत् सा।।
लसद्रागरक्तां कपोलस्थलान्ताम्,
कषायेण पीतेन चित्रीकृतां तां।
समालोक्य होल्यां प्रियां वक्त्रनेत्रां,
जना: प्रेमभारेण मत्ता: भवेयु:।।
यदा बन्धुमित्रादयो मार्गमध्ये
निपीयात्र भाङ्गं तथा ठण्डयीं वा
प्रनृत्यत्सुगीतं च गायन्ति मत्तम्
मदाघूर्णनेत्रै: प्रक्रीडन्ति होलीम्।।
विभिन्नैश्च रङ्गै: गुबारा-प्रक्षेपै:
त्रसन्तीम् प्रियां धावमानां विलोक्य।
कराभ्यां समालिङ्गनार्थं वपुस्ते,
विनोदाय भर्ता च पार्श्वे प्रयाति।।
अहो! स्वादुखाद्यं निधायात्र दिव्यं,
गुजीयेति मिष्टान्नमादाय पात्रे।
वहन्तीं प्रियां चापरे मिष्टपेयं,
स्मरन्नेव होल्यां जगद्हर्षमेति।।
मुखे चन्द्रशोभाSपि कृष्णीकृतास्ति,
कचे श्यामलत्वं च पीतीकृतं तत्।
कुचे पुष्पहारोSपि संत्रोटितोSस्ति,
प्रिये! किन्नु होली त्वया क्रीडितास्ति?।।
सुमार्गे न पादौ त्वदीयौ स्थिरौ स्त:,
कटाक्षं समाकुञ्च्य किं पश्यसीह?
कदाचित्त्वया भङ्गपानं कृतं वा?
कथम् माद्यसीत्थं प्रमत्तानिभा वा?।।
स्पृहारङ्गसारे नवानन्दनीरे,
समुड्डीयमानेSपि दोलादुकूले।
सुवर्णै: युता: पिच्चकारी करे ते,
न शक्नोमि होल्यां च विस्मारणाय ।।
– युवराज भट्टराई