जयतु संस्कृतम्
सुरभारती सुरम्या
मम भारते सुपूज्या
सुरभारती सुरम्या
तदुपासका$पि धन्या
सुलभास्सदा प्रणम्याः।।
कुरु मातृपितृसेवां
नितरां वदन्ति देवा
वेदेषु सर्वज्ञानं
निहितं प्रभो विशालम्।।
महतां प्रपञ्चजालम्
षड्दर्शनं विशालम्।
केचिद्वदन्ति नैकम्
केचिद्वदन्ति चैकम्।।
मठमन्दिरेषु नित्यं
वटवो रटन्ति मन्त्रम्।
प्रातर्नमन्ति सर्वान्
हृदयेन नामधन्यान्।।
वेदाङ्गमामन्त:
गीताध्वनिं वदन्त: ।
निजगौरवं भजन्त:
सुखिनो वसन्तु सन्त:।।
– सचिन कुमार त्रिपाठी