जयतु संस्कृतम्
कविता – उदन्तोऽदन्तः
उदन्तोऽदन्तः,
समजायत शोधसङ्गोष्ठी
यत्र विश्वविश्वस्य
लब्धयशस आययुः
वैज्ञानिका विद्वाँसः
भाषमाणाश्च समूचुः
मन्दाकिन्या आकाशगङ्गायाः
सरलतरलप्रवाहे
प्रवहमानास्ताराः
अकस्मादेव कृष्णसुरङ्गे ( ब्लैक होल )
विलीनीभूय लुप्ताः
तत्रास्माकं पृथिव्याः
सौरमण्डलमपि
तस्मिन्नेव पथि
अग्रेसरमभूत् ,
परन्तु भारतीयवैज्ञानिकाः
सावधानीभूय
प्रामुख्यं भजमानं भानुं
भानुभिरेव समाचकर्षुः
येनाद्यापि जीवामो वयम्।
– प्रो.ताराशंकर शर्मा पाण्डेय