जयतु संस्कृतम्
कविता –
प्रेमवीणाम्
यथा निर्मला वारिधारा नदीनाम्|
स्वरूपं तथा भूषणं सुन्दरीणाम्||१||
यथा सागरा एव रत्नाकरास्ते ,
सरश्चैव पद्मालयःसर्वथाऽऽस्ते,
वचोमाधुरीयं धुरा माधुरीणाम्||२||
यथा गायनं सद्धनं गायिकानाम्,
वरं कौशलं नाटके नायिकानाम्,
तथा शोभते नर्तनं नर्तकीनाम्||३||
यथा हस्तिनी मन्थरेयं प्रयाति,
मराली मरालेन सार्धं विभाति,
कलाऽलङ्कृता कामिनीयं कवीनाम्||४||
यथा शैलजा शारदा शास्ति लोकम्,
सदा सिन्धुजेयं हरत्येव शोकम्,
तथैवास्ति वागीश्वरीयं सुरीणाम्||५||
श्रियं नौमि वीणाकरां बुद्धिदात्रीम्,
हृदा सर्वथा ज्ञान-मान-प्रदात्रीम्,
करोत्वेव मे झङ्कृतां’प्रेम’वीणाम्||६||
– प्रेमशंकर शर्मा