जयतु संस्कृतम्
स्मितं तवेदं वत्स!
स्मितं तवेदं वत्स निश्छलं
शतशो व्याधिं हरते।
लोकवैभवं तुच्छं विदधत्
सततं सौख्यं तनुते।।
देवपूजने विकसितपुष्पं
स्फुटगन्धं तव हास्यम्।
ज्योतिस्तरलं मुखात् स्रवति ते
लसतितरां तव लास्यम्।।
प्रकृतिपेशलं पल्लवगात्रं
रक्ताभं च कपोलयुगम्।
कमलं नेत्रं चपलचेष्टितं
मधुरं मधुरं नवं नवम्।।
गृहाङ्गणं तव गगनं मन्ये
त्वं तु चन्द्रमा मे कान्तः।
मुदा जीवने सततं विचरसि
सिंहपोत इव विक्रान्तः।।
मुह्यति लोकमनस्त्वयि वत्स
यथारविन्दे ह्यलिवृन्दम्।
त्वं तु वर्धसे शुक्लपक्षगत-
चन्द्रज्योतिरिव सानन्दम्।।
– डॉ.संजय कुमार चौबे
Facebook Notice for EU!
You need to login to view and post FB Comments!