जयतु संस्कृतम्
शैत्यप्राभातिकम्
हेमाद्रिसौम्यशुचिधौततुषारसानौ
निक्षिप्य बालकिरणावलिमद्य भानो!
क्रीडारसार्द्रनवकोकनदोपकान्त्या
प्रोत्साहवृत्तिसहितं कुरु सुप्रभातम्।।1।।
शैत्याहतातपतपस्विकुलाभिनन्द्यो
वन्द्योSसि मित्र! धवले हिमतुङ्गश्रृङ्गे।
भूयोSद्य ह्यम्बरमुखोन्मुखशीतभीतान्
जीवानवेहि कुरु भास्कर! सुप्रभातम्।।2।।
मन्ये प्रभातसमये शिशिराहतेस्मिन्
नो त्यक्तुमिच्छति मनश्शयनं कदाचित्।
किन्तु त्वमर्क! भुवनस्य विधानभूत
निद्रां विसृज्य कुरु लोकहितप्रभातम्।।3।।
तौषारसीकरकराप्तपराजयोsपि
प्रायो विभासि भुवने निजकीर्तिनाम्ना।
स्वर्णाभकम्बलमुपास्य च शीतभीत्या
मन्दाननोsपि मतिमन्! कुरु सुप्रभातम्।।4।।
मार्त्तण्ड! चण्डकरदण्डविधानदक्ष!
पक्षक्षतिं न कुरुषे कथमद्य शत्रोः।
शीतोपकारकविचारपरांश्च दैत्यान्
सद्यो निहत्य कुरु देव शुभप्रभातम्।।5।।
चण्डस्वभावमपहाय च शीतभीते-
र्मौनीव तिष्ठसि विषण्णमुखोsद्य यस्त्वम्।
प्राच्यामवाच्य इव तौहिनराङ्कवेणा-
बद्धप्रभासितकरः कुरु सुप्रभातम्।।6।।
लोकञ्जिगाय न हि वेद्मि विहाय कोपं
को पङ्क्तिपावन इवातितरां विशिष्टः।
शीतैरपास्तनिजपौरुषकीर्त्तिशेष
सद्यः पुनातु भुवनं कुरु सुप्रभातम्।।7।।
गोधूमछन्नहरिताननभव्यभूमिं
प्रोत्फुल्लपीतसुमसर्षपगन्धमुग्धाम्।
शाखासु कोकिलकुलानपि वीक्ष्य चोत्कान्
कुत्रासि सूर्य कुरु मङ्गलसुप्रभातम्।।8।।
काकाभिशप्तभुवनान्नु बिभेषि जाने
ज्ञाने तथापि तव नाम मुखाग्रसिद्धम्।
ज्ञानाग्निनैव परितोषयितुं समस्तान्
लोकानुपैहि कुरु देव सुखप्रभातम्।।9।।
पश्याद्य देव! निजलालितलोकतन्त्रे
मन्त्रेष्वशक्तगतयो विलसन्ति तन्त्रे।
तन्द्रालवोsपि निपतन्ति नभस्यसारास्
तारा विहाय रजनीं कुरु सुप्रभातम्।।10।।
वर्षत्यनामयमहो भुवि चन्द्रचूर्णं
पूर्णं लसन्ति खशयास्सितपत्त्रिणस्ते।
लोकाश्च मोदभरिताः हिमगोलकाभिः
क्रीडन्ति, पश्य तरणे! कुरु सुप्रभातम्।।11।।
व्योम्नि प्रवातवशवर्त्तिनमब्दपुञ्जं
कुञ्जं प्रवेश्य निजतिग्ममयूखबाणैः।
भानो! लभस्व चिरकीर्तिमशेषलोके
किन्त्वद्य मित्र ! प्रथमं कुरु सुप्रभातम्।।12।।
शैत्यावेशवशीभूतो निर्बलोsद्य महारविः।
दौर्भाग्यतुहिनाभारात्प्रखरोsपि खरायते।।13।।
– डॉ. राम विनय सिंह