जयतु संस्कृतम्
रक्षाकरैरवतु वो जननी चतुर्भि:
मातर्हिमाद्रितनये विनयेन वन्दे
प्रात: कराञ्जलिनुतश्च सुतस्तवाद्य।
सद्य: प्रसीद भुवनेश्वरि संगृहाण
श्रद्धाभिषिक्तनवशारदपुष्पभावान्।।1।।
भक्तिं ह्यभक्तहृदयेषु निवेशनाय,
सद्ब्रह्मचारिगुणशीलसुरक्षणाय।
प्रातर्भजामि भवदङ्घ्रिसरोजयुग्मं
मातर्विशुद्धयुगकञ्जविकाशनाय।।2।।
नावाssगतासि जगदम्ब गताम्बुलोके,
शोकापहारकरणाय वितारणाय।
लोके विलोक्य सलिलं नवलं सलीलं
श्रीलं प्रणौमि पदकञ्जमहं भृशन्ते।।3।।
दिव्यानुभूतिरिव मानससंविभूति
र्मथ्नाति चित्तमिह रागपरागगानाम्।
लोकेSप्यलोकसुखसौरभलब्धुकामाश्
श्यामाकमुष्टिपचने न भृशं रमन्ते।।4।।
चन्द्रांशुशोभितविशालललाटपट्टा
भट्टारिकेव नरदेवसुपूजितेयम्।
देवी विमुक्तिवसतिर्भुवि ‘चन्द्रघण्टा’
घण्टानिनादनिहतासुरकिल्विषाणाम्।।5।।
ब्रह्माण्डभाण्डमरचि प्रथिते विलासे
पूर्वं यया स्मितितया हितहेतुदेव्या।
सेयं कृपाकुलतया कलिकालकेSस्मिन्
कूष्माण्डिकेति भुवनेSस्ति विशुद्धकीर्ति:।।6।।
स्कन्दप्रसूरसि ह्यमन्दविमुग्धदुग्धा
भावप्रभावविनता नतपुत्रहेतो:।
बद्धाञ्जलि: प्रतिपदं भजते सुतोSयं
बिम्बम्प्रदर्शय मुदा ह्यचिरं मदम्ब।।7।।
कात्यायनस्य महसा तपसा प्रसन्ना
कात्यायनी सुरुचिराभसुवर्णवर्णा।
सिंहासनस्थवरदानविधानदक्षा
रक्षाकरैरवतु वो जननी चतुर्भि:।।8।।
पर्यस्तमूर्द्धजवितानघनान्धकारे
द्रष्टुं न शक्ष्यति करं सुकरं स्वकीयम्।
भक्ता: क्व यान्तु वद देवि! सधूमदेहे
गेहे स्वभानुमपि तापयुतं कुरुस्व।।9।।
त्वङ्कालरात्रिरसि देवि! चराचराणां
शुद्धीकरोषि भवपापपिशाचदैत्यान्।
सम्प्रत्यहो सविषयाकुलचेतनानां
चित्तेषु काशय रविं नवकालरात्रौ।।11।।
हे देवि गौरि! भुवि रक्ष सदैव गौरी-
रापद्गता: प्रतिदिनं विहतास्स्वगर्भे।
मिथ्या वदन्ति न हि शास्त्रवचांसि जाने
नारीं विना जगदिदं भविता श्मशानम्।।12।।
मृत्युंगता: कृतयुगे उत रामकाले
कृष्णोदये यवनमौगलशासने वा।
ते राक्षसा: पुनरहो जनिमाप्य लोके
बेभीत वीथिषु जनान्नितरां चरन्त:।।13।।
देवि! त्वदीयपदपूजनमत्र तावत्
पूर्णं भविष्यति न यावद्भूतलेSस्मिन्।
भूत्वा करालवदनासितखङ्गरङ्गै
र्नूनं रिरङ्क्ष्यसि कलौ न हि पुष्टदुष्टान्।।14।।
निश्चप्रचं त्वमसि मङ्गलमातृमूर्ति
र्लोकप्रसिद्धिरसि वाञ्छितसिद्धिदात्रि।
मातस्तवैव पदरेणुमुपास्य सर्वेS
खर्वेण गर्वसहितेन मुदा रमन्ते।।15।।
माता समस्तभुवनस्य सुपुत्रकाणां
देवि! त्वमेव विहितासि जितेन्द्रियाणाम्।
चेतो मदीयमिह ते लसदङ्घ्रिपुष्पं
लब्धुं द्विरेफ इव कातरतां तनोति।।16।।
नित्यं दिव्यस्तवं देव्या य: पठेच्छ्रद्धयान्वित:।
तस्य हेतोर्भवेन्नूनं कृपा पीयूषवर्षिणी।।17।।
– डॉ. राम विनय सिंह