जयतु संस्कृतम्
यक्षयुधिष्ठिरसंवादस्य पुनराख्यानम् (अभिनवयक्षसंवादः)
यक्षप्रश्नाः-
का वार्ताsथ? किमाश्चर्यं? कः पन्थाः? कश्च मोदते?
इति मे चतुरः प्रश्नान् पूरयित्वा सुखं भज।।1
जनतोत्तराणि-
अस्मिन् जगत्यद्य जनास्समस्ता
विनाशलग्नाः प्रकृतेस्समन्तात्।
तस्मान्नृणां मानसशोधनार्थं
क्षितौ ‘करोना’ चरतीति ‘वार्ता’।।2
पञ्जरस्थाः खगा मुक्ता बद्धास्तद्बन्धकास्स्वयम् ।
काराया दोषिणो मुक्ताः किमाश्चर्यमतः परम्।।3
महीयसी जीवनपद्धतिर्नो ह्यवश्यमासीदिह पूर्वजानाम्
अद्याप्यतो विश्वसुखाय पाल्यो महाजनो येन गतः स ‘पन्थाः’।।4
सेवां सन्त्यज्य शाकादिक्रयं चाप्यटनं क्वचित्।
जलं पीत्वापि गेहे स्वे यः स्थिरः सोsद्य ‘मोदते’।।5
– डॉ. राजकुमार मिश्र