जयतु संस्कृतम्
पयोधरैर् मनोहरैः समावृतेम्बरे
वारि झर्झरायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।।
दाहकः प्रचण्ड ताप,
ईषदद्य शान्तिमाप;
नानिलोनलायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।। १।।
कायिकी तृषापयाति;निर्मला मतिर्विभाति;
मनः शीतलायते अरे!
पयोधरैर् मनोहरैःसमावृतेम्बरे।।२।।
कौति चातको वनेषु,रौति कोकिलो द्रुमेषु;
सारिका पिकायते अरे !
पयोधरैर् मनोहरैः समावृतेम्बरे।।३।।
वेणवो वने लसन्ति,रेणवो जले मिलन्ति;
इला पङ्किलायते अरे !
पयोधरैर् मनोहरैः समावृतेम्बरे।।४।।
ऊर्मिलः सरो विभाति,नदी सत्वरं प्रयाति;
झरः सीकरायते अरे!
पयोधरैर् मनोहरैः समावृतेम्बरे।।५ ।।
अङ्कुरा भुवि स्फुटन्ति,पादपाःसमुद्भवन्ति ;
धरा कण्टकायते अरे!
पयोधरैर् मनोहरैः समावृतेम्बरे।।६ ।।
नूपुराः क्वचित्क्वणन्ति,तन्त्रिका मृदु स्वनन्ति,
रागिनी स्वरायते अरे!
पयोधरैर् मनोहरैः समावृतेम्बरे।७।।
अश्रुविन्दवः पतन्ति,गोपिकाःप्रियं स्मरन्ति;
माधवः स्मरायतेअरे!
पयोधरैर् मनोहरैः समावृतेम्बरे।।८।।
– डॉ. कमला पाण्डेय