सखि ! वारिदाः समागता घनाघना:
सुदूरमहो मत्प्रियोधुना।
मेघगर्जनं श्रृणोति
कम्पितं मनो बिभेति
भास्करे तमस्तनोति 2
चला दामिनी चमत्करोति भीषणा
गृहे निरावलम्बनाधुना ।
मेघमालया प्रहृष्य
वारिधारया प्रसिच्य
वप्रलीलया विशिष्य 2
दिने प्राङ्गणेनुभूयते निशाधुना
भयाकुला मदालसाङ्गना ।
यौवनञ्च धिक्करोति
काम इन्द्रियं धुनोति
कान्तकामनां तनोति 2
अरे रोमरोमसु स्मरप्रचोदना
प्रतीक्षते हि सङ्गमोघुना ।
मेघदूत ! कामरूप !
कामिनां प्रियस्वरूप !
कान्तमानय ह्यनूप ! 2
तदा सङ्गमे प्रियेण तत्समर्चना
प्रसीद मयि स्मरसखेधुना







