समयो मधुः विभाति हे सख्यः
किमु कथयानि।
कमनो न गृहमधियाति हे सख्यः
किमु कथयानि।।
सुरभितमादनपवनो वाति
कुसुमेषुः बहु क्रुधमुपलाति
मतिरपि क्वचन न माति हे सख्यः
किमु कथयानि
समयो मधुः विभाति हे सख्यः
किमु कथयामि।।
गुञ्जितमलिकुलमधिवनि प्राति
पिककलवचनमनलतांं याति
गरलाम्बुनि हृद् स्नाति हे सख्यः
किमु कथयानि।।
समयो मधुः विभाति हे सख्यः
किमु कथयानि
कमनो न गृहमधियाति हे सख्यः
किमु कथयानि ।।

जुलाई 2026
4 Views
चैतागीतम्
समयो मधुः विभाति हे सख्यः किमु कथयानि। कमनो न गृहमधियाति हे सख्यः किमु कथयानि।। सुरभितमादनपवनो वाति कुसुमेषुः बहु क्रुधमुपलाति मतिरपि क्वचन न माति हे सख्यः किमु कथयानि समयो मधुः विभाति हे सख्यः किमु कथयामि।। गुञ्जितमलिकुलमधिवनि प्राति पिककलवचनमनलतांं याति गरलाम्बुनि हृद् स्नाति हे सख्यः किमु कथयानि।। समयो मधुः विभाति हे सख्यः किमु कथयानि कमनो न गृहमधियाति... Read More






