गीतम्
जगदाजुहोति पुनः पुनः सम्भ्रमेण
आयाहि श्याम !हे समं मुरलीरवेण।।
साम्प्रतं कुमारिकाः क्लेशिताःपरं भवन्ति रे
शिक्षालयेऽप्यलीककामुका वसन्ति रे
पाहि नैजपुत्त्रिका हि दुष्टसंहरेण
आयाहि श्याम!हे समं मुरलीरवेण।१
जगदाजुहोति पुनः—
पश्य द्रौपदीपटं खलाधमा हरन्ति रे
धार्तराष्ट्रदनुजा भुवि मदिनश्च चरन्ति रे
जहि तान् गृहाण चक्रमधुना करेण।
आयाहि श्याम हे समं मुरलीरवेण।।२
जगदाजुहोति–
बन्धुता मनुजता च दिक्षु वर्धतां रे
भावना मिथो नृणां शुभाय कल्पतां रे
उच्यतां गीतागवी मधुराधरेण
आयाहि श्याम!हे समं मुरलीरवेण।
जगदाजुहोति पुनः पुनः सम्भ्रमेण
आयाहि श्याम! हे समं मुरलीरवेण।।३
————–
लोकलयः
तोहरी अंगना मे उतरल चान
जहर घोरत होई।
सकलभूमितलेऽतितरां महान्
वन्दनीयतां न कस्य याति रे।
नाम भारतं स्वदेशः श्रेयान्
परमात्मवपुस्सन्दधाति रे।।१
प्रीतिरीतिरक्षणाय
धर्मनीतिवर्धनाय
जायते इहैव विष्णुभगवान्।
तद्वर्त्म सर्वथा विभाति रे।।२
विघ्नराशिनाशनाय
भागधेयकल्पनाय
प्रभुविनायकं स्तवीति मतिमान्
तदर्चनं सुखं ददाति रे।।३
रामभक्तिपोषणाय
भक्तवर्गतोषणाय
हृदि विराजते कपीशहनुमान्
तत्कृपां कदापि को जहाति रे।४
सकलभूमितलेऽतितरां महान्
वन्दनीयतां न कस्य याति रे
नाम भारतं स्वदेशः श्रेयान्
परमात्मवपुः सन्दधाति रे







