जयन्तु वीरसैनिका:,
सदैव शौर्यशालिन:।
भवन्तु राष्ट्ररक्षका,
अशेषदुष्टघातिन:।।
चलन्तु पाकदेशकम्,
हरन्तु तत्र संस्थितान्।
प्रभीतिकारिणो रिपून्,
जघन्यपापचारिण:।।
भवन्तु युद्धजेतृका:,
स्वमातृभारताशिषम्।
निधाय मस्तके स्वके,
पवित्रदेशमृत्तिकाम्।।
पलायनं चरन्तु वा,
न केपि शत्रवस्तत:।
प्रविश्य तद्गृहे पुर:,
निहन्तु तान् हि मूलत:।।
पुनर्न भारतं प्रति,
तदीयदृष्टिपातनम्।
भवेच्च तादृशं भृशम्,
विधत्त हे पराक्रमम्।।
नभोवितानविस्तरे
भवन्तु यानसंरुहा:।
विशालगोलिकाचयम्,
क्षिपन्तु शत्रुमण्डले ।।
दयाविहीनमानसै:,
हताश्च सप्तविंशति:।
जना: प्रसन्नचेतसा,
सुरम्यदृश्यदर्शका:।।
कलत्रमुग्धवार्तया,
सुहासभूषिताधरा:।
नरा नगैस्सुपादपै:,
वृता हता खलैश्च हा।।
समे हि सन्तु भस्मसात्,
न शेषशक्तय: खला:।
हरन्तु नैव भारते,
त्वसून्पुनश्च कस्यचिद्।।







