सूक्तय: सक्तवश्चापि रोचन्ते न: सुखप्रदा:।
सर्वेभ्यो वा भवद्भ्यो वा सावलेहा न संशय:।। १
सर्षपगुणमन्येषां बुधा: कुर्वन्ति पर्वतम्।
सर्षपदोषमन्येषां खला: कुर्वन्ति पर्वतम्।। २
सर्षपगुणमेतेषां कुर्वेऽहमुच्चपर्वतम्।
ते सर्षपसमं दोषं मम कुर्वन्ति पर्वतम्।। ३
नैवात्मनि भवद्भिर् भो:! भावनीया मदुक्तय:।
वृष्टितोयसमा मान्या ग्रीष्मकाले क्वचित् परम्।।४