सान्ध्यवेला गता चाSSगता रे निशा,
चाम्बरे शोभते सा निशानायिका।
स्वप्नलोके प्रयातुं सुते! तल्पके,
गच्छ गीतिं सुतायै प्रगायामि ते।।१
गायन्नस्मीह कन्ये! त्वदीयं प्रियं,
वेद्मि सङ्गीतकं भाति ते मञ्जुलम्।
विष्टरे पेशले गच्छ रे पुत्रिके!
श्रूयतां स्वप्नगीतिं प्रगायामि ते।।२
अंशुमाली च कृत्वा स्वलीलां गत:,
जायते चान्धकार: सुते! सर्वत:।
शन्तिदे स्वप्नलोके गता: ते जना:,
त्वं किमर्थञ्च कन्येSसि क्रीडारता।।३
मेघमालासु विद्योतते सा तडित्,
गर्जना तर्जना जायते भीतिदा।
वृष्टिधारा पतेन्नो क्वचित् तल्पके,
द्वारवातायनौ द्वौ पिनद्धौ यत:।।४
भुक्तपीतासि सम्यक् यत: कूर्द्यते,
शेष्व मुग्धे! निशीथेSपि हा! क्रीड्यते।
स्वप्नगीतं निशम्यापि किञ्चेहसे?
सुप्यतां स्वप्नगीति: मया श्राव्यते।।५
नैव रात्रौ विहार: शुभे! शोभते,
प्रातरुत्थाय क्रीडां कुरुष्व प्रिये!।
सज्जिता ते सुशय्या न वा दृश्यते?,
चापलं त्यज्यतां सुप्यतां कोमले!।।६
स्वप्नलोके मनोज्ञाSप्सरा दृश्यते,
लाल्यसे त्वं च लोकोत्तरे नीयसे।
स्वप्नमध्ये तया नृत्यते गीयते,
शेष्व शीघ्रं सुते! क्रीडनं संहरे:।।७
स्वप्नगा साSप्सरा त्वां शुभां सेवते,
रोचकं कर्णरन्ध्रे शुभं गीयते।
दृष्टिपातेन तस्याः व्यथा नश्यते,
चित्रयामीह किं शेष्व तल्लभ्यते।।८
पुष्पपात्रे सुपेयो रसो दीयते,
सानुरागं तथा गीतकं गीयते।
हस्तसंस्पर्शद्वारा त्वयि प्रीयते,
सुप्यतां दृश्यमेतत्तदा दृश्यते।।९
व्योम्नि सिन्धौ तरौ तोयधौ वा गिरौ,
भानुभामण्डले नाकलोके विधौ।
देवनार्या स्वयं लीलया नीयते,
लोकितुं सर्वमेतत् सुते शेष्व हे!।।१०
अन्धकारे जगत् स्वप्नके लीयते,
पश्य शेतेSनुज: तत्र खट्वां निजे।
सर्वलोका: स्वपन्तीह रात्रौ गृहे,
तारकाश्चाम्बरे भान्ति ते प्रीणने।।११
वाटिकायां वने वृक्षगुल्मा: समे,
चन्द्रिकाशीतरश्मितले शेरते।
स्थातुमग्रे न शक्नोमि खेलाकृते,
नेत्रमार्गेण निद्रा नु मां बाधते।।१२
बालकल्लोलक्रीडा निशीथे न स्यात्,
क्रीड स्वैरं प्रभाते सखीभिः समम्।
स्वप्नवेला प्रयाता सुते! श्रूयताम्,
राक्षसी याति मार्गे सुते! सुप्यताम्।।१३