विवर्णाः कथमरे पारावतास्ते!
समे किल हट्टताले व्याधकास्ते!!
पिका इव मौनवक्त्रा सज्जनास्ते
विलोके वाग्मिनो ननु वायसास्ते!
जनास्संशेरते निजभावतल्पे
किणाङ्काः किन्तु हस्ते रौधिरास्ते!
सदा त्वं दृष्टिरथमारुह्य गच्छेः
जिगीषां हन्ति गुह्यां वञ्चकास्ते!
वने पञ्चाननास्तु निरामिषा भोः
मनो मे शङ्कते मृगघातकास्ते!
विचित्रं जीवनं जातं समेषाम्
पयोरङ्गास्समाजे रक्तिमास्ते!
मृषामाहुश्शतप्रतिशतमहो ये
स्वराष्ट्रे निस्त्रपास्सद्वाचकास्ते!
कलौ कालस्य विपरीत्यैव गत्या
उलूका वावदूकाश्शिक्षकास्ते!
चरित्रं पाशवं येषां धरित्र्याम्
कथय कथमिह वदेयं मानवास्ते!
Facebook Notice for EU!
You need to login to view and post FB Comments!