भो: पितामह! किम्भवति हवनम्।
त्वया किमर्थं क्रियते हवनम्।।
करोषि घृतं व्यर्थे विनष्टम्।
करोति घृतं शरीरं पुष्टम्।।
हवनेन भवति कस्य मङ्गलम्।
किमर्थं क्रियते किञ्च सुफलम्।।
तमुपाविश्य तातेनोदित:।
अध्वरस्य लाभोsनुबोधित:।।
पौत्र प्रकृत्या किं न प्रदत्तम्।
वायुर्जलं सर्वन्तु दत्तम्।।
वयञ्च सततं तान् दुष्याम:।
वयमिष्ट्वा तान् रक्षयाम:।।
यावद् बलं हि लभते घृतेन।
ततः परं सुखं खलु हवनेन।।
सुगन्धितो भूयते प्रवात:।
यागो भवति रोगाणुघात:।।
मृगपक्षिणो जन्तवः सर्वे।
सौख्येन वसन्ति ते सर्वे।।
वेदेषु शिक्षेयं समस्ता।
आत्मसातो बहुसुखं भविता।।
श्रुत्वा पौत्रस्तुष्टो जात:।
हवनस्य लाभोsधुना ज्ञात:।।