१.
द्यूतो दौवारिको यस्य कुलवधूश्च वारुणी |
सगोत्रकास्तथा लुब्धास्तस्मै विभूतये नम: ||
२.
चाटूक्ति: कामधेनुर्हि पिशुनता च सङ्गिनी |
भविष्यति भवामुत्र मङ्गलं तस्य सर्वदा ||
३.
वाञ्छितफलमुत्कोचो भ्रष्टश्च यस्य कामधुक्|
सदनेऽहर्निशं तस्य राजते खलु सिन्धुजा ||
४.
स्तने नवप्रसूताया: दुग्धं यथैव वर्धते |
तथैव साम्प्रतं वित्तमुत्कोचस्यागते गृहे ||
५.
चाटूक्ति: प्रेयसी रम्या प्रवञ्चनं सहोदर: |
लुण्ठनञ्च पणो यस्य तिष्ठति स सदा सुखी ||
६.
लुण्ठधूर्तखलभ्रष्टपिशुनशठकैतवा: |
सुरा इत्यभिधीयन्ते सप्तैते हि कलौ युगे ||
७.
समवायस्सुराप्रेम्णां तिष्ठतीह निकेतने |
तत्र यशपताकायास्सत्वरं हि विपद्यते ||
८.
कर्णोजपा रुजार्शो ह्यवज्ञान्यस्यातपस्तथा|
कास: खलु मृषा यस्य तस्य किमपि नौषधम्||
९.
सन्तिष्ठन्ति समाजे हि यदा यदा मृषार्धका: |
तदा तदा समुत्थानं सदा भवति निश्चयम् |
१०.
ख्यातिं भ्रष्टस्य जानन्त्यस्मिल्लोके ननु मानवा: |
मनाक् गृह्णाति न स्तेयं कदापि कस्यचिद् गृहे ||