हासो मुखे नो लोक्यते चेष्टाऽपि नोत्तरदायिनी
लाभाय कस्मै साधिता बन्धो! त्वया गम्भीरता?॥१
हे काक ! कोकिलसम्मुखे ज्ञायेत नो तेऽकण्ठता
लोकैश्छलेन यतस्त्वया बहुधाऽऽश्रिता गम्भीरता॥२
नैकाङ्गना भुक्तास्सुरां पीत्वाऽऽश्रमे रात्रौ त्वया
भक्तेषु किन्त्वादर्शिता प्रातर्महागम्भीरता॥३
चापल्यमस्ति तथापि भो विद्वत्सु गौरवहेतुना
कतिधाऽऽश्रिताऽस्ति मयाऽपि नो प्रच्छन्नतो गम्भीरता॥४
भृत्वान्तरे गर्वति न यो रत्नं सुधां च रसायनम्
रत्नाकरस्य हि तस्य सा गम्भीरता गम्भीरता॥५
निर्लज्जमाना मानवाः सर्वे समाना दानवाः
नो लोक्यतेऽद्य ततो यथार्था कुत्रचिद् गम्भीरता॥६
इच्छा किमपि वक्तुं सखे! हृदये तदानीं मेऽभवत्
मौनं स्थितोऽहं ते यतो ह्यासीत् मुखे गम्भीरता॥७

अप्रैल 2023
484 Views
गम्भीरता
हासो मुखे नो लोक्यते चेष्टाऽपि नोत्तरदायिनी लाभाय कस्मै साधिता बन्धो! त्वया गम्भीरता?॥१ हे काक ! कोकिलसम्मुखे ज्ञायेत नो तेऽकण्ठता लोकैश्छलेन यतस्त्वया बहुधाऽऽश्रिता गम्भीरता॥२ नैकाङ्गना भुक्तास्सुरां पीत्वाऽऽश्रमे रात्रौ त्वया भक्तेषु किन्त्वादर्शिता प्रातर्महागम्भीरता॥३ चापल्यमस्ति तथापि भो विद्वत्सु गौरवहेतुना कतिधाऽऽश्रिताऽस्ति मयाऽपि नो प्रच्छन्नतो गम्भीरता॥४ भृत्वान्तरे गर्वति न यो रत्नं सुधां च रसायनम् रत्नाकरस्य हि तस्य सा गम्भीरता गम्भीरता॥५... Read More





