कन्याद्वयसंलापकाव्यम्
(अस्मात्काव्यात्काश्चनकणिकाः)
पुरैकदादेवसुतेसुमध्येरामाभिरामेजगतीतलेऽस्मिन् |
चिक्रीडिषालौल्यविगाहिबुद्धीस्मिताक्षिकम्रेतरसाऽवतीर्णे ||१||
एकासदाभोगविलासिनीहृदापरास्वतोभक्तिविभासिनीदृढा |
उभेहिभिन्नप्रकृतीसुलोचनेपरस्परासङ्गरतेविजह्रतुः||२||
पश्यन्त्यौभारतंवर्षंभोगयोगभुवंपराम् |
एवंसंवदतःप्रीतेस्वस्वभावानुसारतः||३||
प्रथमा–शीतोवातोमलयतरुबन्धुःसदावातिनन्दन्
कस्तूरीकेतकपरिमलस्तर्पयत्यन्तरङ्गम् |
ह्लादंधत्तेपिकशुकरवोवाटिकाश्चातिरम्याः
भोगानांकाकथयलघुतावर्ततेभारतेऽस्मिन् ||
द्वितीया – पुण्यावृक्षाःपरितउदिताःसर्वतःकाननानि
प्राचीनर्षिक्रमणसुभगाभूश्चपूतादिशश्च |
लभ्यंतोयंहिसुरसरितःसन्निधिर्देवतानां
सत्यंनात्रक्वचनतपसांलाघवंयोगिनांच ||
प्रथमा – महाभवनमण्डितेमधुलताञ्चितेप्राङ्गणे
वधूभिरधियौवनाभिरुपसेवितःसर्वदा |
गजेन्द्रवरचीत्कृतिध्वनिनिबोध्यमानःप्रगे
इहैवसुकृतीचकोऽपिधरणीपतीराजते ||
द्वितीया – महाटविकृताश्रमोविकटचीरधारीवरः
सदापरमविद्ययाविजरयासुखंसेवितः|
प्रभातमधुरारवैःखगमृगैःस्वयम्बोधितः
सकोऽप्यतुलवित्तवान्यतिवरोऽत्रविभ्राजते ||
प्रथमा – इहकिलसुरवृन्दःस्वर्गमिष्टंविहाय
स्वयमभजतकाशीद्वारकावन्तिदेशान् |
अलमकुरुतभूमिंस्वर्णसौख्यैःसमन्ता-
न्मधुररसितगीतैर्नर्तनैःस्वर्वधूनाम् ||
द्वितीया–बहुकृततपसांपाकेनलब्धांविमुक्तिं
मृदमिवपदलग्नांप्रोज्झ्यभक्ताःक्षणार्धात् |
भगवतिरतचित्ताजन्मवाञ्छन्तियत्र
व्रजपुरमणिरत्नासाधराविश्वधन्या ||
प्रथमा–किंकेवलैर्व्रततपोभिरहोविनाकं
खेदेनयापयतिजीवनमार्षसङ्घः|
नूनंप्रभातसुखशीतलगन्धिवात-
स्पर्शात्परंसुखमिहान्वहमेतिलोकः||
द्वितीया – द्वन्द्वेसहिष्णुशमितंस्फुटमच्छमूर्जत्
शुद्धंकदाप्यचकितंमुनिचित्तमस्ति |
सत्यंतपोबलमिदंह्यनवेत्यमूढः
पित्तादिरोगमनिशंकथमेतिलोकः||
प्रथमा – भिन्नवर्णोनृणामिन्द्रचापःप्रियस्त्वंतथाऽहंतथोभेप्रियेदेहिनाम् |
क्षोणिमाधुर्यभाविन्यहंकौरमेत्वंचसत्येपरस्मिन्स्थिरामोदसे ||
द्वितीया –सुष्ठुतत्त्वंत्वयाज्ञातमेतद्हलायातिवैषम्यमेकात्तभारातुला |
साम्यतःशोभतेहन्तकोटिद्वयंतत्तथैवास्तिलोकेहितार्थंनृणाम् ||
उभे – भिन्नौमार्गौस्थितौलोकेत्वस्मद्रूपेणसङ्गतौ |
भारतस्योत्तमाङ्गेऽस्मिन्नद्रौभिल्लार्जुनाविव ||
रम्योहिमाद्रिर्भुविशोभमानोभोगिभ्यआराद्बहुयोगसाध्यः|
वन्दावहेतंनिलयंनिधीनामेकाश्रयंरक्तविरक्तधीनाम् ||
• एतेहिवृत्तीप्रतिपूरुषान्तरस्थितेप्रियेलोकमतेसुरूढे |
विलोक्यसम्यग्हिमयाऽत्रवर्णितेदृढेकिलास्माकमतीवहृद्ये ||
राधात्मजाकृताचित्राकवितेयमपूर्विका |
सप्रेमरसिकादीनांद्राक्सम्पादयतांरुचिम् ||
इतिकन्याद्वयसंलापकाव्यम् |