कामये वः शुभानि!
न याचे करोने! विमुक्तिं जगत्यां
न वा बन्धनं कर्मणां दर्शनीयम्।
परं शेषकर्मादिसम्पादनार्थं
शतं चायुषाम्मे समाः सम्प्रदेयाः।। १
न मे साहसं हर्तुमेवासि दक्षा
त्वदीयाक्रमं रे विजानामि सर्वम्।
ममास्ये$स्ति मास्कं करोने! नृहन्त्रि!
शिवश्चित्तवृत्त्यां च राराज्यते$स्याम्।। २
त्वदीयं कुचक्रं चलच्चक्रधारी
त्रिभङ्गी हरिष्यत्यहो मन्मथारी।
खरारिर्हरिर्मध्वरिः शूलधारी
जगद्रक्षकाः सन्ति देवाः प्रजानाम्।।३
करोने न जृम्भस्व देशे$स्मदीये
समाप्तिं गतं कुम्भपर्वाद्य सद्यः।
भुजङ्गप्रयातं परं वर्धते ते
अरे दानवेन्द्रोद्भवे याहि दूरम्।। ४
म्रियन्ते जनाः साम्प्रतं भारतीया
युवानः प्रवृद्धा असङ्ख्या विपन्नाः।
श्मशानं पुना रौति दृष्ट्वा शवं हा
परं नैव भीता वयं सावधानाः।। ५
जनाः सन्ति ये मास्कशून्याः स्वदेशे
विदेशे$थवा नैजगेहे वने वा।
द्रुतं स्वाननं येन केनापिधाय
पटेनाद्य जीवन्तु चिन्तादिशून्याः।। ६
प्रमादो न मास्काद् विधेयो भवद्भि-
र्भयं चैव कार्यं करोनाविषाणोः।
निजं जीवनं बान्धवानाममूल्यं
सदा रक्षणीयं हृदा प्रार्थये$हम्।।७
इदं चक्रमेकं करोनाप्रसूतं
न यावत्प्रयातीव दूरं सुदूरम्।
न तावद्भवन्तो मुदा मास्कमास्यात्
नयन्तु प्रियाः! कामये वः शुभानि।। ८
भुजङ्गप्रयाताङ्कहेतोः सुपद्यं
लिखन्त्वेव शीघ्रं तु कालानुरूपम्।
हरी रक्षको नः प्रजानामवश्य-
मितीत्थं सदा भावनां भावयन्तु।। ९
अगाधे समुद्रे तरन्तीव ये ये
प्रवात्याकुचक्रे$पि सुस्थाश्च ते ते।
ज्वत्कालवह्नौ प्रखेलन्ति वीरा
भवन्त्येव धीरा जिताकालपाशाः।। १०
*****************
ताण्डवं दृश्यते!
ताण्डवं दृश्यते ताण्डवं दृश्यते।
भारते साम्प्रतं ताण्डवं दृश्यते।। १
हिन्दुदेवापमानं खलैर्दर्श्यते।
बन्धवस्साम्प्रतं ताण्डवं दृश्यते।। २
हिन्दवो नैकतासूत्रसम्मानिनः।
तत्फलं साम्प्रतं ताण्डवं दृश्यते।। ३
संविभक्ता वयं वर्गभेदादिभिः।
यत्फलं साम्प्रतं ताण्डवं दृश्यते।। ४
पूजनीयाः प्रतीकाः शठैः खण्डिताः।
बान्धवा: साम्प्रतं ताण्डवं दृश्यते।। ५
कुत्सिता भावना दानवी वर्द्ध्यते।
अद्भुतं साम्प्रतं ताण्डवं दृश्यते।। ६
रक्षितुं नारविन्दोsनुरुन्धे भुवम्।
हा मुहुः साम्प्रतं ताण्डवं दृश्यते।। ७
धिक्कारश्चलचित्रसर्जनरतान् निर्देशकान् दुर्जनान्
देवान् हन्त निरन्तरं कलुषिता ये चित्रयित्वा ध्रुवम्।
धर्मान्धास्तु विदारयन्ति हृदयं देशे मुहुर्मादृशां
यस्माद् दृश्यत एव कोपजनितं रौद्रास्पदं ताण्डवम्।।