शिक्षकान्नो पदं श्रेष्ठसम्मानितं
शिक्षकान्नो परा देवता भूतले।
सत्समाजं विनिर्माति योsहर्निशं
शिक्षकस्सादरं नम्यतेsसौ हृदा।।01।।
मूर्खशिष्यो भवेद्विज्ञशिष्योsथवा
राजपुत्रो भवेद्भृत्यपुत्रस्तथ...
द्विजराज:
चलसीह नु तारकिते गगने,
प्रभया हृदि कौतुकतां भरसि।
रजनीकर! सोम! तमो हरसि,
द्विजराज! सदा मधुरं हससि।।१
सुखदं तव दर्शनमस्ति सदा,
गिरिशो वहतीह मुदा शिरसा।
प्रकृतौ ...
एको भवति
मायया परिवृतो
युगलरूप:।। 1 ।।
द्वाभ्यां जायते
प्रजात्मकस्तृतीयो
वर्द्धते सृष्टि:।। 2 ।।
प्राणरक्षायै
जलस्थलगगने
निर्माति नीडम्।। 3 ।।
आस्ते कुलाये
द्यावापृथिव्योर्मध्ये
रक...
ॐ हर हर महादेव
बं बं बं बं वदन्तो हर हर डमरूं डं डडं वादयन्त:
छं छं छं छञ्च वृष्टिर्भवति भवतु तच्चिन्तनं त्यक्तवन्त:।
धृत्वा काषायवस्त्रं प्रमुदितहृदया आर्द्रदेहाश्चचलन्त:
ऊँ...
योगेश्वराय हरये भुवनेश्वराय
रासेश्वराय महसे च रसेश्वराय।
कृष्णाय भावपुरजातसतृष्णकाय
नित्यन्नमोsस्तु वरदाय परात्पराय।।1।।
कृष्णोsसि देव! जगतः शुभकारकस्त्वं
ह्यन्धन्तमांसि विनिहंसि विभासनाय ।
...
नानावर्णभवान् कलौ हतसुखान् श्रान्तान् विपद्भावितान्
लोकान् रञ्जयितुं विधातुमपि तान् मग्नान् सुखाब्धौ चिरम्।
वेदैः क्रीडनकं विरच्य विधिना यस्मै प्रदत्तं नवं
पुत्रैस्स्वैश्शतसंख्यकैस्स भरतो जीयान्...
राजमतमहापुराणे नलनीलवार्त्ता(६)१.१७.९.१...
वीचेरिन्द्रियमिन्द्रियाद्वीचिर्वा संदेग्धि ।
यथाक्रीडमीप्सुः स्वयं तथा क्रीडितुं दोग्धि ।।१.१७.९.१।।
चञ्चुक्रीडादीक्षितौ खगौ तिष्ठतो ह्यत्र ।
जिगमिष...
केचित् कल्मषकोषकर्षणकलाकम्राः कुलीनाः क्वचित्
कार्पण्येन कुलं कलौ कलयतां कृष्णन्ति कर्मालयम्।
कौपीनेषु कुशाग्रबुद्धिकमनाः कृष्ट्वा कृतान्तं क्रमात्
काश्यां कर्मकलापलोपत इमे कैवल्यलोकङ्गताः।। १
...
लट्ठं विना नहि वने पशुचारणं स्यात्
लट्ठं विना नहि कृषेरपि रक्षणं स्यात्।
स्नेहेन चौरहृदये मृदुता क्व दृष्टा
लट्ठेन तस्य मनस: परिवर्तनं स्यात्।।1
लट्ठं करे भवति यस्य करे कदाचित्
तन्मार्गरोधनप...
कामये वः शुभानि!
न याचे करोने! विमुक्तिं जगत्यां
न वा बन्धनं कर्मणां दर्शनीयम्।
प...




