किमिदं लोकचरित्रम्
हत: पितामह! येन पिता वा येन निन्दिता माता
भवति समाजे कथं स लोकैर्मान्यो भाग्यविधाता।।
यस्य सेवका लोकतर्जने तथा लुण्ठने व्यस्ता
भवति जनानां मध्ये स्थित्वा स...
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम्
य ईक्षते सदा परं स्वकार्यसिद्धये जनः
स मन्यते महाविमूढमानवः कलौ बुधः।
गिरिं समुन्नतं विलोक्य यस्तु कम्पते$निशं
स भीरुको निवर्ततां द्रुतं गृहांगणं निजम...
दन्तधावनं प्रातःकाले
वारिसेवनं प्रातःकाले ।
मातृवन्दनं तातवन्दनं
सदा विध...
अनाथान् विधाय प्रयातो दिवं नः पितर्दुःखितोऽहम्
श्रुतो नाऽन्तिमस्ते स्वरो भावपूर्णः पितर्दुःखितोऽहम्॥१
जगन्नीरसं हा श्मशानायमानं मुहुर्भावयेऽहम्
अकस्माद् विहाय प्रयातो दिवं नः पितर्दुःखितोऽहम्॥२
...
भवति रोदनं कथं सुपुत्रक! त्यज रोदनं हि शीघ्रं
पितामहस्ते नीत्वा त्वामपि हट्टं यास्यति शीघ्रम्।।
यत् त्वं वाञ्छसि पितामहस्ते दास्यति तुभ्यं शीघ्रं
शीघ्रं शीघ्रं स्वच्छं वसनं उपानहौ धर शीघ्रम्।।
...
करालकालकालबालजालमुण्डमालक
ललामलालभव्यभाललोकपालपालक।
यशोविशालचित्रचालबालचारुचन्द्रधृग्
अनाथनाथनाथनाथविश्वनाथ पाहि माम् ।।1।।
सुनाथसोमनाथवैद्यनाथरामनाथना-
गनाथघुश्मनाथमल्लिकार्जुनादिरूपभृत्।
...
यदि नास्ति जीवने कथा श्वसनेन तेन किम्।
यदि नास्त्यहो कवे व्यथा कवनेन तेन किम्।। १
धनमस्ति ते गृहे धनिन् बहुसञ्चितं प्रियम्।
नहि दत्तमेव भिक्षवे विभवेन तेन किम्।। २
श्रुतिरस्ति ते मुखे शुभा ...
1.
खेलति गेहे बालगणेश:
माता गौरी पिता महेश:।
पितु: त्रिशूलं हस्ते नीत्वा
लघु लघु धावति बालगणेश:।।
रक्तं वसनं धृत्वा नृत्यति
मधुरमोदकं नित्यं खादति।
मूषकपृष्ठे स्थित्वा ...
श्रीविन्ध्यवासिनीस्रोतम्
जय नन्दनन्दननन्दिते जय चारुचन्दनचन्दिते
जय दिव्यमण्डनमण्डिते जय विन्दुवृन्दसुवन्दिते।
जय पण्डिते मुनिमन्दिते जय भक्तचित्तविलासिनि
जय विन्ध्यपर्वतवासि...
भिक्षाटनेन खलु जीवनयापकानां
हस्ते कदापि पतितं नवराजपत्रम्।
दृष्ट्वैव तत् विकटनर्तनदीक्षितास्ते
भस्मासुरप्रियतमानुगतामवापु:।।1
विस्मृत्य पूर्वचरितं मदमत्ततायां
स्वस्वामिनां सुचरितं मनसा निनिन...




