यद्भावात्मकमस्ति तन्न भविताssभावात्मकं निश्चितं
यच्चाsभावमयं कदापि भवताद्भावस्वरूपन्न तत्।
संसारो विषसदृशोsशिवभरोsभावान्वितोsशाश्वतस्
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।01।।
बाल...
एहि पुत्र! आपणं चलाव:।
गत्वा च फलानि क्रीणाव:।।
गृहाण गृहाद् त्वमेकं स्यूतम्।
सुन्दरञ्च विशालं प्रभूतम्।।
क्रीत्वा शाकं फलञ्च लाव:
एहि पुत्र! आपणं चलाव:।।
किमर्थं पित:! स्यूतं गृह्णानि।
...
प्रभातकालादिह जायमाना
वृष्टिर्जनान्नन्दयति प्रकामम् |
निसारमाच्छाद्य गृहस्थितोऽहं
सूर्यस्य ताप: क्व गतो न जाने ||
लोकस्य वस्त्राण्यवतारितानि
स्वीयप्रतापेन च येन सद्यः |
यो निन्दित: सर्वजनैर...
दाहक: प्रचण्डरश्मिभिर्दिवानिशं
रविर्दहत्यहो नृजीवनम्।।
शीतवायवो न वान्ति दीप्तवह्नयो ज्वलन्ति।
योषितो न यान्ति हा निजं महानसम्।
रविर्दहत्यहो नृजीवनम्।
दाहक:-- १
पीनमाशका दशन्ति दीनबालका र...
लसेच्चिरं पदं स्थिरं पदाभिलाषिमानिनो
विचिन्त्य कालयापनं प्रकुर्वते यदा-तदा।
जहन्निकर्मकान्पदोन्मदान्निरीक्ष्य कामये
कपीश्वर प्रपाहि मां हि बद्धपाशपिञ्जरे।।
जगज्जनस्स जङ्गमीति...
आयात बालका भो: संस्कृतं वयं पठाम:
महिमानमस्यास्सर्वान् वदामः।
नगरं- नगरमधुना चलाम:।।
शृणुत बालका भो: संस्कृतं वयं पठाम:
आयात बालका भो: संस्कृतं वयं पठाम:।।
सुन्दराश्श्लोका अस्यां निहिता:।
ब...
हे पितामह! क्वाधुना मम रक्षको वा रक्षिका।
क्वाधुना शेते शिवो वा क्वास्ति चण्डी कालिका।।
राक्षसानां मण्डली भ्रमतीह नित्यं निर्भयं
रोदितीह गृहे वने वा सज्जनानां जीवनम्।
देवभूमि: दानवानां नग्ननर्त...
कन्याद्वयसंलापकाव्यम्
(अस्मात्काव्यात्काश्चनकणिकाः)
पुरैकदादेवसुतेसुमध्येरामाभिरामेजगतीतलेऽस्मिन् |
चिक्रीडिषालौल्यविगाहिबुद्धीस्मिताक्षिकम्रेतरसाऽवतीर्णे ||...
नमोनमश्शीतांशुशीर्षधारकाय शूलिने
भुजंगभूषणाय चारुचर्मधारकाय ते,
सुरार्चिताय भक्तिभाविताय दुःखनाशिने।
भवस्य भेषजाय लोकपालकाय शम्भवे,
नमोनमश्शिवाय सर्वभूतरक्षकाय ते।।१
स्मरा...




