पिता धन्यो मान्यो हिमपतिनगेशो गुणनिधि-
र्जने ख्याता मेना विमलगुणसेना ज जननी।
सखीभि:क्रीडन्ती भ्रमति मधुरालापनिरता
उमा गौरी नाम्ना विलसतु गृहे सा भगवती।।1
विहाय स्वर्भोगं शिवचरणदासी समभवत्
तपस्यायां लीना मुनिजननमस्या गुरुगुणा।
प्रसिद्धाऽपर्णेति प्रखरमधुराभा कमलिनी
चिदानन्दा नित्या विलसतु ………………।।2
यदा विप्र: कश्चिच्छिवपदविरुद्धप्रवचनं
चकार स्वप्रीत्यानिजगुरुमतित्वं विरचयन्।
तदा तत्वोद्भेदात् तमपि गुरुतां शिक्षितवती
प्रसन्ना सर्वज्ञा विलसतु………………..।।3
जले शीते ग्रीष्मे ज्वलदनलजाले स्थिरपदा
महार्घं तद्रत्नं विकटतपसा साऽर्जितवती।
स्वयं क्रीतो दासस्सकलभवनाथस्सहचरोऽ
भवत्सा कल्याणी विलसतु……………।।4
करं धृत्वा यस्या: सुरगणगरिष्ठो वृषपति-
र्यदर्धांगी भूत्वा सुरगणनमस्या समभववत्।
ययाऽनङ्गध्वंसी सुतयुगलतात: प्रमुदित:
शिवाङ्गी तन्वङ्गी विलसतु………………।।5
रणे यस्या: कोपादसुरगणममुख्यो विदलित:
प्रसादात् यस्या वा सुविदितदरिद्रो भवपति:।
स्वभावात् या मृद्वी ज्वलदनलदेहा च विषमा
वियद्गंगाधारा विलसतु………………..।।6
शरत्काले शशुद्धस्फटिकमणिहारावलियुता
जनानां सौभाग्यं वितरति सुधास्यन्दिवदना।
शिवप्रीत्यापायं हरति विनतानां सुनयना
हरन्ती दुर्दैनन्यं विलसतु………………..।।7
लवङ्गी मृद्वंगी कुचभरनताङ्गी स्मितमुखी
स्फुटद् द्राक्षाधारा कनकमणिहारा मधुमती।
कपोलाब्जे वक्रालकमधुपमालां रुचिकरीं
वहन्ती गौरांगी विलसतु……………….।।8
विशुद्धा सत्वस्था पतिपदपयोजे मधुकरी
वृषस्याग्रे सिंहं ललितनयनैर्लालयति या।
रणे वा गेहे वा विचरति समाना रसवती
किरन्ती सौभाग्यं विलसतु …………….।।9
सर्वज्ञानमयी देवी पुत्रं मूढं निरक्षरम्।
यथाकालं यथासाध्यं येन केनापि बोधय।।10
मूढपुत्रस्य पापेन मातुर्निन्दापि जायते।
इत्थं वदन्ति ये लोके तच्छक्तिं को हरिष्यति।।11






