कार्यस्य सिद्धये तत्सर्पोऽपि दिव्यहारः
सञ्जायते विषाणां पश्चात् स एव भारः॥१
यत् स्वेच्छया प्रदातुं तुभ्यं मयेष्यते स्म
तत्प्राप्तये किमर्थं बन्धो! कृतः प्रहारः॥२
उक्त्वा वचो ह्यसत्यं यो रक्षितो मया, सः
शत्रूयतेऽद्य, तस्मात् विहितोऽन्तिमोपकारः॥३
नद्यस्सुधाजलास्तास्त्वामेव सम्मिलन्ते
कस्मात् पुनः समुद्र! त्वं जायसे ह्यसारः?॥४
प्रेम्णो दशाऽपि कीदृक् कम्राऽस्ति पश्य कुञ्जे
शान्तोऽस्ति कोऽपि शब्दो योऽस्मत्कृतेऽस्ति तारः॥५
सर्वस्वमुज्जिहीते यः त्वत्कृतेऽविचारम्
किं शोभते तदर्थं ते साम्प्रतं नकारः?॥६
शब्दे भ्रमन्तु केचिद् ह्यर्थे तथैव किन्तु
शब्दार्थरम्ययोगाद् वाण्या अहं प्रसारः॥७
स्तः कस्य नाऽभिनन्द्यौ सत्ताविधायकौ तौ
रामोत्तरप्रदेशश्चाणक्यभूर्बिहारः॥८
कामं भवेद् युवा वा प्रौढो जरज्जनोऽन्यः
भूत्वाऽखिलेऽपि काले स्थास्यत्ययं कुमारः॥९