संमिल्य गच्छेम तथा वदेम
कुत्रापि कोsपीह न पीडितं स्यात्।
क्रीडेम संमिल्य पठेम नित्यं
पश्येम राष्ट्रस्य हितं नितान्तम्।।
अर्जेम भुञ्ज्याम वयं हि सर्वे
भक्षेम संमिल्य च भक्षयेम।
पिबेम संमिल्य च पाययेम
ह्यत्रैव राष्ट्रस्य हितं प्रभूतम्।।
जीवेम सर्वे सततं विशुद्धा
पायाम राष्ट्रञ्च वयं हि सर्वे।
रक्षेम तोयञ्च वपेम वृक्षान्
स्वतन्त्रताया अयमेव चार्थ:।।
दूरं हि मिथ्यावचनाद् भवेम
संमिल्य युध्येमहि मङ्गलाय।
धर्मञ्च नैजं सततं चरेम
स्वतन्त्रताया अयमेव चार्थ:।।