हृद्यमादौ च वेदनामन्ते
ब्रूहि के केSSधुना समीहन्ते ।
इन्द्रजालं प्रवर्तते मित्र !
सर्षपा यत्करे विजायन्ते ।
व्यासपीठे वृकोदराः प्रायः
शास्त्रभारोन्मदा विराजन्ते ।
नायका शाठ्यचातुरीसिद्धा
लोकलोका नतानुवर्तन्ते ।
ज्ञातमद्यैव तद्रहस्यं यद्
वञ्चकास्तत्प्रियं विभाषन्ते ।
केचिदट्टालिकासु भव्यासु
अत्र खर्वास्तथा विराजन्ते ।
कीदृशा मे मनोरथा मित्र !
चोत्पद्य वियति विलीयन्ते ।
प्रत्यवायश्च स्वप्नभङ्गाश्च
एधते चाधुना समेधन्ते ।
म्रियन्ते जीवितुं नित्यं तथा
मत्समाः के च ये विभासन्ते।
Facebook Notice for EU!
You need to login to view and post FB Comments!