श्रीविन्ध्यवासिनीस्रोतम्
जय नन्दनन्दननन्दिते जय चारुचन्दनचन्दिते
जय दिव्यमण्डनमण्डिते जय विन्दुवृन्दसुवन्दिते।
जय पण्डिते मुनिमन्दिते जय भक्तचित्तविलासिनि
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।1।।
जय भानभानवितानदे जय भक्तिगौरवगानदे
जय रोगयोगनिदानदे जय शोकमोकनिशानदे।
जय दुर्गुणादिविहानदे जय वस्त्ववस्त्तुविभासिनि
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।2।।
जय भव्यभाग्यविधानदे जय दिव्यभोगनिधानदे
स्वजने कृपापरिधानदे सुजने निजप्रणिधानदे।
अतिमापपापपिधानदे भवसर्जनाद्यभिधानदे
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।3।।
वसुधासुधाधुनिधायिनीह समृद्धिवृद्धिविधायिनि
सुखशान्तितुष्टिसुपुष्टिसन्मतिसिद्धिसद्गतिदायिनि।
जय दुष्टदानवदारिणि प्रखरप्रभे भवशासिनि
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव।।4।।
भवभव्यभावविभाविनी भुवि विश्ववैभवभाविनी
द्विषतां त्विषां परिभाविनी त्वमभीतिभित्तिवितानिनी।
अवतारतेवनतानिनी मृदुमन्दमन्दसुहासिनी,
जय विन्ध्यपर्वतवासिनि! प्रणमामि पादयुगं तव ।।5।।
खलचण्डमुण्डवितुण्डिनी त्वमसीह सभ्यसुहुण्डिनी
मधुकैटभासुरमर्दिनी सनिशुम्भशुम्भनिषूदिनी।
भुवि रक्तबीजनिपातिनी महिषासुरादिविघातिनी ,
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।6।।
अणुतोऽप्यसि त्वमणीयसी महतोऽपि चासि महीयसी
गुरुतोऽप्यसीह गरीयसी लघुतोऽपि चासि लघीयसी।
त्रिदशादिवृन्दवरीयसी च बलीयसी , जगदम्बिके!
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।7।।
न सुतः सुता जननी पिता न सखा सखी नहि बान्धवा
अनुजोऽग्रजो न गुरुर्न शिष्य इहास्ति कोपि सहायकः।
कृपया विना तव नैव मे गतिरस्ति कापि कदापि कौ
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।8।।
जननी त्वमेव पिता त्वमेव सखा त्वमेव सबान्धवो
जगतां च यत्किमपीह तत् सकलं त्वमेव महेश्वरि।
मयि बालके नितरां कुरु स्वदयाक्षिपातमधीश्वरि
जय विन्ध्यपर्वतवासिनि प्रणमामि पादयुगं तव ।।9।।
******************
गीतम्
परिहर रे नर निजमभिमानम्।
क्षणिकं मायाजालवितानम्।। परिहर•••
रावणकंससदृशयोद्धारः
शस्त्रशास्त्रविद्याबोद्धारः।
कालव्यालहलाहलदग्धा
निन्युर्नो सह किमपि निधानम्।। परिहर ••••
नहि सह याति सखा परिवारो
नहि समाजविस्तारोऽपारः ।
मणिहारो न सभासत्कारः
कुरु धनजनबलपदमदहानम्।। परिहर •••
परिवर्तनशीले संसारे
समरूपं न सदावस्थानम्।
तीक्ष्णतापभानोरपि सायं
भवति न किं निजभानुविहानम्।। परिहर •••