ॐ हर हर महादेव
बं बं बं बं वदन्तो हर हर डमरूं डं डडं वादयन्त:
छं छं छं छञ्च वृष्टिर्भवति भवतु तच्चिन्तनं त्यक्तवन्त:।
धृत्वा काषायवस्त्रं प्रमुदितहृदया आर्द्रदेहाश्चचलन्त:
ऊँ ऊँ ऊँ स्मो रटन्तो भव भव भगवन्!शंकर!त्वं प्रसन्न:।।01।।
भक्तोsहं साधकोsहं गुणबलरहितो बुद्धिहीनोsधमोsहं
शुद्धोsहं सात्त्विकोsहं तव चरणगतोsहं प्रभो!याचकोsहम्।
दासोsहं पूजकोsहं शिवमयहृदयोsहं शिशुस्सेवकोsहं
प्राप्तोsहं त्वच्छरण्यं हर हर शशिधर! विघ्नबाधाभरोsहम्।।02।।
देवस्त्वं श्रीहरस्त्वं रघुवरहृदयस्सूर्यचन्द्रप्रभस्त्वं
ध्येयस्त्वं शक्तिमांस्त्वं गिरिवरतनयाप्राणनाथप्रियस्त्वम्।
पूज्यस्त्वं सिद्धिदस्त्वं सुरनरमुनिभिर्वन्दितस्त्वं भवस्त्वं
नम्यस्त्वं सर्वदस्त्वं शशिधरभगवान्विश्वनाथप्रभुस्त्वम्।।03।।
माता गङ्गा जटायां शिरसि शिशुशशी पन्नग: कण्ठदेशे
सर्वाङ्गे भष्मलेपो गिरिवरतनया पार्वती सव्यभागे।
वामे हस्ते त्रिशूलं शिवकरडमरुर्दक्षिणे राजतेsसौ
देवश्श्रीविश्वनाथो हरतु शिवहरो विश्वपीडां करोनाम्।।04।।
काशी यस्य त्रिशूले वसति शिवकरी मृत्युतो मोक्षदात्री
विद्याया राजधानी गुणिगणलसिता स्वर्गतो भव्यदिव्या।
ताम्बूलैश्शाटिकाभिर्विविधरसभरैश्चर्चिता भोज्यपेयै:
तस्यां स्यान्मे निवास: प्रभुशिवभगवान्प्रार्थ्यते विश्वनाथ:।।05।।
भक्ता ये हर्षयुक्तास्तव शुभशरणं प्राप्नुवन्ति स्म सत्या:
प्रत्येकं वर्षमेव प्रमुदितहृदयाश्श्रावणेsस्मिन्सदैव।
याचन्ते ते कोरोनाविपदि सुपतिता रोगमुक्तिञ्च शीघ्रं
तस्माद्धे!विश्वनाथ!प्रिय!हर!शिव!हे!रक्ष रक्षासुरारे!।।06।।
ध्येयं त्वां सन्धरामि स्वकशुभहृदये सर्वदा विश्वनाथ!
पूज्यं त्वां पूजयामि स्वकविमलहृदा नित्यशो विश्वनाथ!।
चिन्त्यं त्वां चिन्तयामि स्वकशुभमनसि श्रद्धया विश्वनाथ!
स्थाप्यं मां स्थापय त्वं स्वकसुचरणयोर्नाथ हे विश्वनाथ!।।07।।
वैदैर्ग्रन्थै: पुराणैरुपनिषदखिलैर्दर्शनैश्शास्त्रपुञ्जैर्
विज्ञैरज्ञैसुधीभिर्गुरुवरचरणैस्साधुसंन्यासिभिर्वै।
गन्धर्वै: किन्नरैर्वा ह्यसुरसुरवरैर्मानवै: पूजितस्त्वं
हे! काशीविश्वनाथ स्वकचरणरजो देहि मे हे!दयालो!।।08।।
माता यत्रान्नपूर्णा निजसुतनिकारान्पोषयत्यन्नपानै:
दुर्गाकुण्डस्थदेवी निजजनमनस: पूरयत्येव वाञ्छाम्।
देवश्श्रीकालभैरो हरति च विपदो भक्तदेहस्य नित्यं
तस्यां काश्यां निवासो भवतु मम सदा प्रार्थये विश्वनाथम्।।09।।
यत्रत्यश्श्रीकबीर: कविसु दिनकरोsभूद्धि विश्वप्रसिद्धो
यत्र श्रीरामवृत्तं प्रियकवितुलसीदासकेन व्यलेखि।
यत्र श्रीमालवीयो बिसमिलगिरिजामुंशिशुक्ला बभूवु:
तस्यां काश्यां निवासो भवतु मम सदा प्रार्थये विश्वनाथम्।।10।।
नैवं काशीव रम्या प्रियतमनगरी यत्र गंगा विशाला
नैवं काशीव भूमिर्मरणमपि शुभं मन्यते यत्र नित्यम्।
नैवं काशीव विद्या वदति शिशुरहो यत्र वेदान्तवाक्यं
तस्यां काश्यां निवासो भवतु मम सदा प्रार्थये विश्वनाथम्।।11।।
*******************
मनो वेपते
राम रामेतिशब्दं सदा यो वदेत् सद्विनम्रैस्स्वभावैस्समान्मोहयेत्।
स्थापयेद्दुष्टतां स्वीयचित्ते यदा
वच्मि सत्यं तदा मे मनो वेपते।।01।।
आगतो भूतले योsपि जीवस्सखे!
मृत्युलोकात्स नूनं गमिष्यत्यहो!।
वाञ्छतीहामरत्वं यदासौ नरो
वच्मि सत्यं तदा मे मनो वेपते।।02।।
ज्वालयित्वा शवं स्नाति भीत्या ध्रुवं
क्षालयत्यात्मवस्त्राणि यस्सज्जन:।
सैव भुङ्क्ते सदा जीवमांसं यदा
वच्मि सत्यं तदा मे मनो वेपते ।।03।।
यस्सभायाञ्ञ दद्यात्सुधीर्भाषणं
संस्कृतं भारतीयैस्सुसेव्यं ध्रुवम्।
संततिं नो यदासौ स्वकां पाठयेद्
वच्मि सत्यं तदा मे मनो वेपते ।।04।।
वैद्यको यः प्रयच्छेच्छिवामौषधीं
याञ्च भुक्त्वा जनो नैकपुत्रो भवेत्।
दृश्यतेsसौ स्वयं पुत्रहीनो यदा
वच्मि सत्यं तदा मे मनो वेपते ।।05।।
संततेर्जन्मने सञ्जहाति प्रियं
यौवनं सुन्दरं मातृका या स्वकम्।
प्राप्तभार्यस्सुतस्तां यदा हा त्यजेद्
वच्मि सत्यं तदा मे मनो वेपते ।।06।।
शैलखण्डश्च गत्वा ध्रुवं मन्दिरं
जायते देवरूपः परन्नित्यशः।
मानवो मानवत्वं व्रजेन्नो यदा
वच्मि सत्यं तदा मे मनो वेपते।।07।।
बाल्यकाले न विद्या धनं यौवने
वृद्धकाले न पुण्यञ्च येनार्जितम्।
मृत्युकाले यदासौ प्रखिन्नायते
वच्मि सत्यं तदा मे मनो वेपते ।।08।।
या च शक्तिस्वरूपा भवानी सदा
मानवैश्श्रद्धया सर्वदा पूज्यते।
साबला यौतकार्थं यदा हन्यते
वच्मि सत्यं तदा मे मनो वेपते।।09।।
यो ह्यधर्मञ्चरेदन्यमानं हरेन्
नित्यशो दुष्टकार्येषु लग्नो भवेत्।
सैव दद्याच्चरित्रस्य शिक्षां यदा
वच्मि सत्यं तदा मे मनो वेपते।।10।।
कोsपि सूर्यातपै: पीडितो जायते
शीतलत्वञ्च तस्मै प्रयच्छेच्छशी।।
सम्प्रदद्याद्यदौष्ण्यं स्वयं हा शशी
वच्मि सत्यं तदा मे मनो वेपते ।।11।।