दन्तधावनं प्रातःकाले
वारिसेवनं प्रातःकाले ।
मातृवन्दनं तातवन्दनं
सदा विधेहि प्रातःकाले।।01।।
स्वच्छचिन्तनं प्रात:काले
सत्यभाषणं प्रातःकाले।
आलस्यं त्यज बाल बालिके
कालरक्षणं प्रात:काले ।। 02।।
स्वच्छभोजनं प्रातःकाले
गीतगायनं प्रातःकाले।
भक्तिभावसंलिप्तो भव रे!
सूर्यपूजनं प्रात:काले।।03।।
शान्तिधारणं प्रातःकाले
साधुचिन्तनं प्रातःकाले।
विद्यालयं व्रज त्वं शीघ्रं
यानमागतं प्रात:काले ।।04।।
पश्य मयूरो नृत्यं कुरुते
खगोsधुनासौ चूचू कुरुते।
यानं मार्गे छू छू कुरुते
मोदय नित्यं प्रात:काले।। 05।।
पुष्पपादपो गन्धं तनुते
गुरोश्च कथनं शिष्यो मनुते।
कथावाचका ज्ञानं ददते।
मनो हर्षय प्रात: काले ।।06।।
शशी गतोsसौ प्रात:काले
भानुरागतः प्रातःकाले।
मन्दं मन्दं प्रवहति वायु:
त्यजे: स्वशय्यां प्रात:काले ।। 07।।
पश्य बालका: कथं हसन्त:
मन्दं मन्दं कथं लसन्त:।
यानं दृष्ट्वा खलु धावन्त:
सन्ति समस्ता: प्रात:काले।।08।।
क्षेत्रं कर्षति कृषीवलोsसौ
यच्छति विद्यां गुणी बुधोsसौ।
नमो नमो वद हृदा सर्वदा
भानुरागत: प्रात:काले ।।09।।
पठेस्सहर्षं निजं संस्कृतं
सनातनं यज्जगद्वन्दितम् ।
सिद्धपूजितं देवरक्षितं
सर्वसेवितं प्रात:काले ।।10।।