प्रभातकालादिह जायमाना
वृष्टिर्जनान्नन्दयति प्रकामम् |
निसारमाच्छाद्य गृहस्थितोऽहं
सूर्यस्य ताप: क्व गतो न जाने ||
लोकस्य वस्त्राण्यवतारितानि
स्वीयप्रतापेन च येन सद्यः |
यो निन्दित: सर्वजनैर्मिलित्वा
ग्रीष्मस्स भीष्म: क्व गतो न जाने ||
ह्य एव दृष्टः स्वगृहाद्बहिर्यो
विशालवृक्षोऽत्र गभीरमूल:|
अद्य प्रभाते न हि दृश्यतेऽसौ
वृष्टिप्रकोपात् क्व गतो न जाने ||
सर्वाणि यानानि जनांश्च सर्वान्
यथावधि प्रापयति स्म गम्यम् |
चमत्कृतो विस्तृतराजमार्ग:
क्षणद्वयेऽसौ क्व गतो न जाने |
ग्रामाननेकान्पथिकाननेकान्
सेतुर्हि यो योजयते स्म नित्यम् |
अखण्डवृष्ट्या बत खण्डितोऽसौ
गभीरखाते क्व गतो न जाने ||
तपस्विनामासनमादिकाले
जातो हि यो पर्वतदेशसंस्थ: |
अखण्डित: प्रस्तरखण्डकोऽसौ
कणायमान: क्व गतो न जाने ||
मत्स्यो हि योऽजायत शक्तिशाली
सर्वेषु मत्स्येषु भयानकोऽपि |
स रामगंगास्थितमत्स्यराज:
कोपात्प्रकृत्या: क्व गतो न जाने ||
स्वकीयगेहाद्विनिपातितो यो
नित्यं च मार्गेऽवकरोऽपि सर्वै: |
अद्य प्रकृत्या: कृपया स तूर्णं
जलप्रवाहे क्व गतो न जाने ||
सुखं भविष्यत्यचिरं समेषां
पलायितानामपलायितानाम् |
प्रदर्शितो यो जननायकै: स
स्वप्नो जनानां क्व गतो न जाने ||
नीतिर्नवा साम्प्रतमागतैका
शिक्षाविकासाय समग्रदेशे |
आत्मस्थितो वास्तविको गुरुस्स
शनैःशनैर्हा क्व गतो न जाने ||