(दूरभाषाय कृतं बालहठं निध्याय रचितानि पद्यानि प्रस्तूयन्ते)
पित:! ददातु मेSपि दूरभाषयन्त्रकं शुभम्
मदीयमित्रमस्ति पार्श्ववर्तिगेहसंस्थित:,
सदैव दूरभाषयन्त्रकेण खेलतीह स:।
ममाग्रतो विचित्रयन्त्रचालनं करोति स:,
ददातु मेSपि दूरभाषयन्त्रकं यत: पित:!।।१
मदीयदूरभाषहीनतां विलोक्य नित्यशः,
प्रदर्श्य स्वं मुबाइलं तिरस्क्रियां करोति स:।
ददाति नैव खेलनाय दर्शनाय मे तथा,
पित:! ददातु मेSपि दूरभाषयन्त्रकं यत:।।२
कराङ्गुलिं द्रुतं द्रुतं प्रचाल्य दर्श्यतेSमुना,
सुगीत-दृश्य-चित्र-दर्शनं विधीयतेSमुना।
मदीयमानसेSस्ति तद्वदेव रम्यभावना,
द्रुतं ददातु मेSपि दूरभाषयन्त्रकं पित:!।।३
भवन्मते तु दुर्गुणोSस्ति दूरभाषचालनं,
तदेव लब्धुमस्ति मन्मनोSत्र सर्वथाSSकुलम्।
पितर्भवान् भवेन्मम स्थले यदीह साम्प्रतम्,
विनैव दूरभाषकं न शक्नुयाच्च जीवितुम्।।४
पित:! विना न कोSपि बालकोSस्ति दूरभाषकम्,
समेSपि हेलयन्ति मां न कोSपि पृच्छतीह माम्।
भवेयमद्य हे पित:! सुहृद्भिरन्वित: कथम्?
द्रुतं प्रदीयतां यतो नवीनदूरभाषकम्।।५
कथं सहेSपमानमत्र दु:खितोSभवं भृशम्,
प्रदर्शयन्ति मत्पुर: समे स्वदूरभाषकम्।
किमीहते भवान् पित:! वृथा दुनोति चित्तलम्,
अतः प्रदीयतां द्रुतं नवीनदूरभाषकम्।।६
अहं करोमि नृत्य-गीत-चित्र-वृत्त-दर्शनम्,
ममापि हस्तगं करोतु दिव्यदूरभाषकम्।
पठामि पाठमप्यहो! चलन् भ्रमन् यथायथम्,
स्व-दूरभाषयन्त्रकं निधाय यामि चाSSपणम्।।७
भवद्वचोSपि पालयामि सत्वरं गृहे पित:!,
गृहाद्बहिर्न याम्यहं गृहे वसामि हे पित:!।
पृथक्स्थितश्च दूरदर्शनात् पठामि सन्ततम्,
निवेदनं निशम्य मे ददातु दूरभाषकम्।।८
अशिक्षितस्य हस्तगं तदस्ति दूरभाषकम्,
अधीतिशालिनां करेSपि भाति दूरभाषकम्।
त्रिचक्रचालकस्य दूरभाषयन्त्रभाषणम्,
विलोक्य सर्वमेतदत्र देहि दूरभाषकम्।।९
समग्रसूचनाप्रदायकं च दूरभाषकम्,
समस्तलोकलोचनेषु बद्धदूरभाषकम्।
विपश्चितां मनोगतं तदेव दूरभाषकम्,
पितर्ददातु मत्कृते नवीनदूरभाषकम्।।१०