अश्रुभिराचमनं करणीयं भवति
कथं मित्र !
जीवनमभिशप्तं वरणीयं भवति
कथं मित्र !
गतो वसन्तः पुनर्नागतः
श्रीहीनं सदनम्,
अश्रुपूरिते नयने तरले
हृदि करुणाकलनम्
भग्नस्वप्नकुलं चयनीयं भवति
कथं मित्र !
अधरे मृषास्मितं धरणीयं भवति
कथं मित्र !
कृताःप्रार्थनाः शुभं काक्षितं
सुखं वाञ्छितं किं
जीवनमखिलं वरं प्रार्थितं
शिवं कल्पितं किं
परमधुना दुःखं वरणीयं भवति
कथं मित्र !
द्वन्द्वं मनसि सदाचरणीयं भवति
कथं मित्र !
काराकीलितमहो जीवनं
कालोSयं कुरुते,
स्नेहशीलसौन्दर्यदर्शनं
पुस्तकेषु लभते,
कूटजटिलतन्त्रं सरणीयं भवति
कथं मित्र !
भोगभवनमधुना रमणीयं भवति
कथं मित्र !
भाग्ये मधुव्रतानां केन
गरलं यल्लिखितम्
काव्ये ललितजीवनं किन्तु
प्रत्यक्षे स्खलितम्
अन्तरभीप्सितमनुसरणीयं भवति
कथं मित्र !
बहिरनपेक्षितमनुकरणीयं भवति
कथं मित्र !
जटिलःप्रश्नः द्वारे नव्यः
प्रतिदिनमायाति
समयश्चैकं दुःखनवीनं
मन्दं प्रददाति ,
समरजीवनं तत्करणीयं भवति
कथं मित्र !
विजिगीषयाधुना तरणीयं भवति
कथं मित्र !
वायुर्वाति नदी निर्गच्छति
परिवर्तनमनिशम्
आयुःश्वासदलैःलिखतीह
रेखाकर्मफलम्
प्रतिक्षणं पुरतो गमनीयं भवति
कथं मित्र !
पुनरेकाकी सञ्चरणीयं भवति
कथं मित्र !