आदिनमहो रिक्तताभारः
आदिनमहो व्यर्थतासारः
आदिनमहो मृषाव्यापारः
आदिनमहो वृथा व्यवहारः
किं वक्तव्यं-किं वक्तव्यम् ,
गतोSभ्यर्थनाया आधारः
हतःस्पन्दनोद्गतःप्रसारः
दुष्टःशब्दस्तथा विचारः
अनर्थकः प्रार्थनाप्रतारः
किं वक्तव्यं-किं वक्तव्यम् ,
वादविवादेखिलः विचारः
गृहं वर्तते नो परिवारः
ज्वलन्निभः जातः रविवारः
तथागतःरिक्तःबुधवारः
किं वक्तव्यं- किं वक्तव्यम् ,
स्वप्नानामधुना विस्तारः
प्रश्नानाममितःसंसारः
सन्देहानां ततिःकदाचित्
पीडानामभितःसञ्चारः,
किं वक्तव्यं- किं वक्तव्यम् ,
आकाशे कुसुमं सञ्जातम्
शृङ्गयुतं शशदलं प्रयातम्
वन्ध्यापुत्रवती सञ्जाता
मृषा भावनानां व्यापारः
किं वक्तव्यं-किं वक्तव्यम् ,
कदा निर्गतं सत्त्वमशेषम्
पश्यामः पातकपरिवेशम्
कदा विस्मृतं स्वत्वमर्जितम्
भाति कम्पितः मूलाधारः
किं वक्तव्यं-किं वक्तव्यम् ,
श्रीहीनः विचरति श्रृङ्गारः
द्वारे करुणरसस्याकारः
याहि वसन्तं सूचय मित्र !
विनिर्गतःकान्तःह्यभिसारः