अयि गिरिजे शिवशंकरगेहं गत्वा कथं वसिष्यसि हे
राजसुता त्वं भिक्षुकगेहे चिन्तय कथं भविष्यसि हे।।
अयि गिरिजे……..।।
पति: वृषेण चरिष्यति लोके सिंहे कथं चरिष्यसि हे
दिगम्बरस्यांगने कथं त्वं रत्नाम्बरं धरिष्यसि हे।।
अयि……….।।
सकलभोगभवनं त्यक्त्वा वद भिक्षां कथं करिष्यसि हे
भूतगणैस्सह सर्पनिवासे गत्वा कथं वसिष्यसि हे
अयि ………….।।
स्वयं तु योगी योगनिलीनो दिव्यास्वादमुपैष्यति हे
बुभुक्षितायाश्चैकाकिन्या रात्रि: कथं गमिष्यति हे।।
अयि गिरिजे………।।
विलेशयानां फुफकारैस्तव भीति: किन्न भविष्यति हे
पुष्पैरपि या गृहे दूयसे सेवां कथं करिष्यसि हे।
अयि ………..।।
तदा जगाद सखीं गिरिजा यत् शिवं यदैव हि ज्ञास्यसि हे
स्वयं लज्जिता भूत्वा किमपि कदापि पुनर्न वदिष्यसि हे
अयि गिरिजे…….।।