” भो धेनु वत्स: तिष्ठ….!”
आसीत् प्रकृत्या कृपण: एको धनिक: । तस्य अन्नादिनां क्रयविक्रयो: एकं प्रतिष्ठितमधिष्ठानम् प्रगतिशील: स्म। परञ्च स: कस्यचिदुपरि न विश्वसति।
तेन अधिष्ठाने नाप-तौल-वित्तादिनाम् आदानप्रदानयो: लेखनदायित्वे स्वपुत्र: नियोजित:। किशोरवयसि पुत्र: कार्याधिक्येन समयेन आहारमपि न गृहणाति स्म । दिनपर्यन्तं एकस्थाने तिष्ठ्वा लेखनादि कार्ये संलग्नो भूत्वा शरीरेण स्थूल: मनसा च शिथिलो अजायत्। समयं प्राप्त्वा तेन परिणयसूत्रे निबद्धो जात:। किंतु नवयुवकानामिव उत्साह: तस्मिन् नासीत्। प्रथमे वयसि इदृशं शैथिल्यमवलोक्य तस्य भार्या चिन्तितोऽभवत् । कार्यस्य प्रकृति: अस्य कारणमस्ति इति विचारं स्वमनसि स्थापितवान् ।
तस्यागंणे एका पालिता धेनु: अप्यासीत् । तस्या: वत्स: कीलकेन बद्ध्वापि मुहुर्मुहु: चंचलतां धारयति स्म।
एकदा श्वसुर: गृहाभ्यान्तरे भोजने निरत: तदानीमेव कुर्दयन् धेनुवत्सं अभिलक्ष्य स्नुषा अवदत् “भो! धेनुवत्स: बहु चंचलो वर्तते …तिष्ठ…! तिष्ठ…!
” त्वयापि अधिष्ठानस्य लेखनकार्य: कारयिष्यते तदा त्वमपि कूर्दनं विस्मरिष्यसि “। एतत् श्रुत्वा भोजनं खादयन् श्वसुर: मनसि अचिन्तयत्- ” दिनपर्यन्तं लेखनं कृत्वा पुत्र: परिश्रमेण सायं शिथिलो भवति “। अपरेद्यु : धनिकेन लेखनादि कार्याय एकस्य लेखकस्य नियुक्ति: कृत:।