अनाथान् विधाय प्रयातो दिवं नः पितर्दुःखितोऽहम्
श्रुतो नाऽन्तिमस्ते स्वरो भावपूर्णः पितर्दुःखितोऽहम्॥१
जगन्नीरसं हा श्मशानायमानं मुहुर्भावयेऽहम्
अकस्माद् विहाय प्रयातो दिवं नः पितर्दुःखितोऽहम्॥२
सदा पालितो दुःखदारिद्र्यदावानलान् हन्त सोढ्वा
सुखस्यानुभूतेः प्रयातोऽसि पूर्वं पितर्दुःखितोऽहम्॥३
श्रमो यो ह्यपारः कृतो वर्धने सद्द्रुमाणां सुतानाम्
अनास्वाद्य तेषां फलं यत् प्रयातः पितर्दुःखितोऽहम्॥४
स्मृतौ धावते तेऽनिशं सौम्यरूपं वहत्प्रेमधारम्
कथं वञ्चितस्तेऽद्य सङ्गादभूवं पितर्दुःखितोऽहम्॥५
प्रसुप्तं विलोक्योपधानं विना मां त्वया शान्तवृत्त्या
कृतः सोपधानोऽनुचिन्त्याऽद्य दृश्यं पितर्दुःखितोऽहम्॥६
यदा रामराम्नस्स्मृतिर्जायते मे तदा सागरोऽपि
उदेति स्वतः पूर्णनाम त्वदीयं पितर्दुःखितोऽहम्॥७
प्रयाणादकस्मात् सुतस्ते कुमारोऽद्य वृद्धोऽस्मि जातः
वहाम्यन्तरा त्वां कथं लोकभारं पितर्दुःखितोऽहम्॥८
जनवरी 2022
112 Views
पितर्दुःखितोऽहम्
अनाथान् विधाय प्रयातो दिवं नः पितर्दुःखितोऽहम् श्रुतो नाऽन्तिमस्ते स्वरो भावपूर्णः पितर्दुःखितोऽहम्॥१ जगन्नीरसं हा श्मशानायमानं मुहुर्भावयेऽहम् अकस्माद् विहाय प्रयातो दिवं नः पितर्दुःखितोऽहम्॥२ सदा पालितो दुःखदारिद्र्यदावानलान् हन्त सोढ्वा सुखस्यानुभूतेः प्रयातोऽसि पूर्वं पितर्दुःखितोऽहम्॥३ श्रमो यो ह्यपारः कृतो वर्धने सद्द्रुमाणां सुतानाम् अनास्वाद्य तेषां फलं यत् प्रयातः पितर्दुःखितोऽहम्॥४ स्मृतौ धावते तेऽनिशं सौम्यरूपं वहत्प्रेमधारम् कथं वञ्चितस्तेऽद्य सङ्गादभूवं पितर्दुःखितोऽहम्॥५ प्रसुप्तं विलोक्योपधानं विना... Read More