1.
वेदपाठे पुराणे च रामायणे
गीतगोविन्दगानेSथवा पारणे
पूजने तर्पणे चार्पणे दीपने
तन्मयं नो मनस्तेन किं तेन किम्
पर्वते गह्वरे निर्झरे सञ्चरे
पुष्पिते पादपे ताम्रपत्रे फले
माधवे गुञ्जने नर्तने कूजने
विस्मृतन्नो मनस्तेन किं तेन किम्
मन्दिरे वा मठे,सज्जने वालये
नायके वा नटे शासके वा नये ,
मन्त्रिते यन्त्रिते तन्त्रिते संस्तुते
वर्तितन्नो मनस्तेन किं तेन किम्
झङ्कृतेSलङ्कृते संस्कृते संस्तुते
नीतिभिःपूरिते सूक्तिभिश्शोभिते
वाचिके मौखिके विस्तृते भाषणे
रञ्जितन्नो मनस्तेन किं तेन किम्
आनने सुन्दरे चिक्कणे सज्जिते
भूषिते मानिते चर्चिते शोभिते
मानुषे च कुलीने यथेष्टं यदि
निश्चितन्नो मनस्तेन किं तेन किम्
काललीलालये कल्पिते नश्वरे
मोहमायामये कालिके सङ्गरे
तत्पदे तत्पले तत्क्षणे तल्लये
चिन्तितन्नो मनस्तेन किं तेन किम्
नो रसो नो रतिर्नो स्मृतिर्नो यतिर्
नो गतिर्नो मतिर्नो धृतिर्नो कृतिश्
चेद्विलासेSपि कोषेSपि नाकेSथवा
उन्मनस्तन्मनस्तेन किं तेन किम्?
***********************
2.
समन्ताज्जायमानानि विचित्राणीह दृश्यानि
कुतश्चिद् दग्धगेहानि कुतश्चिद् भग्नहृद्यानि
कथं स्वातन्त्र्यमाप्तं भारते मेSनारते हन्त!
लभन्ते खण्डिताः स्वप्ना विषण्णानीह वक्त्राणि
मराला मानिनो दूरं प्रयाता मानसादेवम्
वराकैःकृष्णकाकैर्मौक्तिकानीमानि भुक्तानि
श्रुतं यद्राजभवनेस्मिन्वसन्तो बन्धको जातः
पुस्तकेषूपलब्धानि परं शुष्काणि पत्राणि
पताका धूयते प्रगतेरिदानीं चन्द्रलोकेSपि
समुत्कर्षे विनष्टानि शिशूनां मृच्छकटिकानि
मयूरो मञ्जरी भृङ्गो वनं पद्मं झरो हन्त!
सखे! गीतस्य तत्त्वानि मदीयानि विलुप्तानि
यतो दीव्यन्ति बहुरूपाः श्रीमंस्तत्र वासो मे
मनांस्यामूलकृष्णानीति वासांसि तु शुक्लानि
न जाने कस्य दोषो जीवनं कारायते नूनम्
मयैषा प्रार्थना प्रीत्या समे पश्यन्तु भद्राणि
विशाले स्तब्धतापूरे प्रदीप्ते राजमार्गे हा
निशीथे गातुमीहेहं सखे! रम्याणि गीतानि