विभाति यद् भास्करवद् त्रिलोके
सदा तनोत्यात्मयशो गुणैस्स्वैः।
धरापि यस्य प्रमुदास्ति कुञ्जै-
स्तदेव रम्यं प्रियभारतम्मे।।1।।
अटन्ति कूजन्ति मृगा द्विजाश्च
प्रफुल्लचित्ता मनुजा वसन्ति।
वहन्ति यस्मिन् मरुतस्सुगन्धा-
स्तदेव रम्यं प्रियभारतम्मे।।2।।
गावोपि कन्या: परकीयदारा
भवन्ति नम्या नगपन्नगाश्च।
नद्यस्समुद्रा विटपार्कचन्द्रा-
स्तदेव रम्यं प्रियभारतम्मे।।3।।
हिमालयो यत्र ललामभूतो
गोदावरी-व्यास-चिनाबनद्यः।
रेवा च गङ्गा यमुना वहन्ति
तदेव रम्यं प्रियभारतम्मे।।4।।
दीपावली तीजमहोत्सवोपि
ख्रीस्ट्रोत्सवो नानकजन्म यत्र।
मान्यन्त ईदोत्सवहोलिकेथ
तदेव रम्यं प्रियभारतम्मे।।5।।
काशी च काञ्ची मथुरा च माया-
योध्यात्र जन्युङ्गमयन्ति मुक्तिम्।
अवन्तिका द्वारवती पवित्रा-
स्तदेव रम्यं प्रियभारतम्मे।।6।।
पुण्यैर्महद्भिर्मनुजैर्विनीतै:
र्धीरैर्गभीरैस्तिलकादिभिर्यद्।
नीतं प्रसिद्धिं भुवनान्तरेषु
तदेव रम्यं प्रियभारतम्मे।।7।।
वेदान् षडङ्गैस्सहितान् समस्तान्
पुराणतन्त्रागमदर्शनानि।
बिभर्ति विज्ञस्सततञ्च यस्य
तदेव रम्यं प्रियभारतम्मे।।8।।
भाषा विभिन्ना सुफलाश्च धर्मा
नाना कला यत्र समुल्लसन्ति।
कामा मदीया फलिताश्च येन
तदेव रम्यं प्रियभारतम्मे।।9।।