राज्यशोभां नितान्तं स संवर्धयन्
डोबरा-चांठि-सेतुर्भृशं शोभते |
भूमिगामी च पन्थाः स चम्बास्थितो
यात्रिकेभ्य: प्रदत्ते सुखं नित्यशः ||
दर्शनीय: पिथौरागढे संस्थित:
सुन्दरो मोददश्चास्ति बिर्थी-झर: |
देवदारु-प्रभा-पूरिते पर्वते
गह्वरश्चापि पातालभूतोऽद्भुत: ||
कोटगाडीस्थिता न्यायदेवी शुभा
कालिका दिव्यगंगोलिहाटस्थिता |
चण्डिका लोकतापं हरन्ती तथा
दर्शनीया मन:कामनापूर्तये ||
आयतो राजमार्गो नवो निर्मितो
लोकयात्रा शुभा जायते तद्गता |
सर्वधामानि गन्तुं न कालक्षयो
नापि वित्तक्षयो वर्तते सम्प्रति ||
सेतुमार्गप्रपूर्णाद्य मायापुरी
दिव्यगंगाजलेनाभिषिक्ता प्रिया |
शोभितैर्नव्यगंगातटैर्घट्टकै:
राज्यशोभा प्रकामं सुसंवर्धिता ||
उत्सवा मोददा:, संस्कृति:सौख्यदा
मानवा: सन्ति सद्भावनापूरिता: |
सत्फला उन्नता वृक्षका शोभना
उत्तराखण्डराज्ये लसन्ति प्रिया:||
स्वीयशास्त्रेषु सिद्धा युवानोऽनिशं
प्राप्तुमुद्योगमेकं प्रयासे रता: |
देशसेना-प्रवेशाय केचित्तथा
सज्जिता: सन्ति,धावन्ति भूरिश्रमा:||
शीतवायुप्रसारेण संवासित:
शुद्धनौलाजलेनाभिषिक्त: शुभ: |
सर्वसंसारसम्मानितश्चोन्नत:
पर्वतीयप्रदेश: प्रियो मामक: ||
माननीय: सदा यत्र नारीश्रम:
दर्शनीया सदा यत्र खेला शिशो:|
मृत्तिकामज्जितै: कर्षकैश्शोभित:
पर्वतीयप्रदेश: प्रियो मामक: ||
मन्दिरैर्मानितै: पर्वतैरुन्नतै
रम्यहेमाद्रिशोभाप्रफुल्लैर्जनै:|
ग्रामभूमिप्रभूतैर्विभिन्नै: फलै:
दर्शनीय: प्रदेश: सदा मामक:||