स्वातन्त्र्य-शौर्यमनारतं बलिदानिनां संस्मारयन्
विभ्राजमानो$यं मनोज्ञो देशभक्तिं शिक्षयन्
संवर्द्धयन् सद्भावनां भुवनत्रये नोनूयते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. १
संसूचयन् प्रकृतिं त्रिवर्णां भारतीयां भुवि लसन्
नवभारतं रचयन् सुजनतां भावयन् नृमनो हरन्
क्रान्तिस्वरं संश्रावयन् भवने$मरो देदीप्यते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. २
देश: स्वतन्त्रो भारतं बलशालिनां लभते पदं
वैज्ञानिकीप्रतिभाचमत्कारंं विधत्ते सत्फलम्.
दृष्ट्वैव यं भीता द्विषन्त: स ध्वजो नोनुद्यते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ३
अरविन्दगांधिसुभाषबल्लभचन्द्रशेखरकाङ्क्षिता
राजेन्द्रगंगाधरतिलकसुतभगतसिंहसमर्चिता.
लब्धा शुभा स सुभारती येनाधुना राराज्यते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते.. ४
जातो विकासो भारते सुखिनो जनाश्च समन्तत:
विहरन्ति याने वा विमाने मानिता मुदिता अत:.
सर्वं फलं यस्यास्ति दत्तं सैष किन्न महीयते?
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ५
आकर्ण्यतां वीरा:! सगर्वं गर्जनामरविन्दजां
निजराष्ट्रसेवाभावनाभरितामिमां हृदयाश्रिताम्
दास्यामहे राष्ट्राय सर्वं य; स नो नोनूयते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ६
अमृतमहोत्सव एष राजति पञ्चसप्ततिसञ्ज्ञक:
स्वान्तन्त्र्यगाथां श्रावयन् सदने समेषां मानद:.
प्रियदेशभक्तिरसाकरो निजभारते बोभूयते
भव्यस्तिरंगा भारतस्य गृहे गृहे लालस्यते. ७