यदि नास्ति जीवने कथा श्वसनेन तेन किम्।
यदि नास्त्यहो कवे व्यथा कवनेन तेन किम्।। १
धनमस्ति ते गृहे धनिन् बहुसञ्चितं प्रियम्।
नहि दत्तमेव भिक्षवे विभवेन तेन किम्।। २
श्रुतिरस्ति ते मुखे शुभा निखिला$द्भुता सखे!
नोक्ता क्रतौ यदि त्वया सुरवेणन तेन किम्।। ३
सलिलं तवास्ति सागरे प्रचुरं मितव्ययिन्।
ज्वलितं वनं विरौत्यहो सलिलेन तेन किम्।। ४
निगदत्यहो जनो$खिलो$हं वञ्चितो$भवम्।
भुवि वञ्चको$स्ति को$धुना कथनेन तेन किम्।। ५
प्रवदन्ति ये सभास्थले मुनिवत् प्रियं वचः।
नहि धारयन्ति ते हृदा वचनेन तेन किम्।। ६
भ्रान्तं प्रजासु नैव भोः! काले कलौ ध्रुवम्।
निर्वाचने समागते भ्रमणेन तेन किम्।। ७
यदि साधुसंगमः कृतः कविना त्वया सुखम्!
न करोषि कर्म पावनं गमनेन तेन किम्।। ८
प्रसरन्ति काव्यकानने$मधुपा मनोरमे।
अरविन्दसौरभद्विषां सरणेन तेन किम्।। ९
********************
वैष्णवदेवीस्तुतिसप्तकम्!
अयि वैष्णवि! देवि! गिरीन्द्रसुते! भवभीतिविदारिणि! मातरये!
शिवशम्भुमनस्विनि! कल्पलते! तव दर्शनमेव फलं ददते।। १
कमहं भगवन्तमिमं नतवान् न मुदा भवगेहिनि! सानुगृहे!
विधिरेष परं कृपणः कविराड् दयते न कथं भवलीनमनाः?२
वद शूलिनमेव वरं गिरिशं वृषभासनसुप्तमनाप्तभवम्।
स्वकुमारसमं कलिनव्यशिशुं सुकुमारमिमं प्रथते न कथम्?। ३
भवभूतिमयं भवभूतिनतं भवभूतिचमत्कृतिभव्यमुखम्।
अहिराजगलं वद कालपतिं गिरिजां दधतं सरितं नृपतिम्।। ४
पदयोर्मम नैव बलं विपुलं न बलं कृशकाय इवाप्रतिमम्।
तव दर्शनभाग्यधनार्थमहं चलितास्मि गृहात् सुदिने त्वरितम्।।५
यदि मां तनयं हृदयीकुरुषं निजजन्मफलं फलितं सकलम्।
यदि नो हृदये दधसे कुकविं जननी जननी तनयस्तनयः।। ६
ऋतमेव वदामि शपन् मुदितः परिपूर्णमनाः शृणु वैष्णवि! माम्।
जननि! द्रुतमेव निजाङ्कसुखं मृदु यच्छ वरं न ततस्तु सुखम्। ७