1. स्वागतं नववर्षस्य
गतवर्षं नमस्तुभ्यं शिक्षणार्थम्भृशं ननु।
स्वागतं नववर्षस्य सुखशान्तियुतस्य च।।1।।
कदापि दिवसं वर्षं न भवति शुभाशुभम्।
विचारै: खलु जायन्ते दुःखानि च सुखानि च।।2।।
ज्ञात्वा प्राक्तनदोषांश्च शोधयामो वयं यदि।
गतवर्षाद् भवेच्छ्रेष्ठं नववर्षमिदन्तदा।।3।।
विहाय विगतिं द्वेषं स्नेहञ्च वर्षयेत् सदा।
गतवर्षाद्धि शिक्षित्वा कार्यं कुर्याम नित्यशः।।4।।
जीवने नहि तिष्ठेम वीक्ष्य विघ्नान् पुन: पुनः।
सुदृढञ्च व्रतं कृत्वा चलेम नववत्सरे।।5।।
न भवति सम: काल: सर्वनृणां कृते ननु।
गतवर्षाद्धि शिक्षित्वा चलन्ति सुधयस्सदा।।6।।
शुभेच्छा: नववर्षस्य युष्मभ्यं प्रददाम्यहम्।
गच्छेत् सुखेन शान्त्या च दत्त्वेयं धनसम्पद:।।7।।
सर्वकामाश्च पूर्णा: स्यु: मुदितञ्जीवनम्भवेत्।
इच्छेयं नववर्षस्य वर्धेत सुयशोबलम्।।8।।
भास्करेण समं तेजो यशो वसुन्धरासमम्।
वर्धतां भवतां नित्यं ममेति शुभकामना।।9।।
वत्सरे नूतने नित्यं साफल्यै: सह सम्पदा।
वर्धेरन् भवतां हर्षा: शुक्लपक्ष इवोडुराट्।।10।।
**************************
2. शुभाय भूयान्नववत्सरोsयम्
संवत्सरोsयं प्रददातु तुभ्यं
हर्षा ह्यनन्ता: प्रचुरञ्च धनम्।
कार्याणि पाण्योश्चरणौ फलं स्यात्
शुभाय भूयात्तव जीवनेsयम्।।1।।
वर्धेत धान्यञ्च धनं सदैव
सर्वत्र लोके तनुयाद् यशस्ते।
रोगाश्च नष्टा: खलु सन्तु पीडा:
शुभाय भूयान्नववत्सरोsयम्।।2।।
दुष्टा: पिशाचा: खलु पापिनश्च
मूढास्समीपे न भवन्तु जातु।
कोपो न चिन्ताsवगुणाश्च सर्वे
शुभाय भूयान्नववत्सरोsयम्।।3।।
सूर्येण तुल्या सततं हि शोभा
ज्ञानं समुद्रेण समञ्च भूयात्।
नद्या समञ्च प्रवहेद् हिरण्यम्
शुभाय भूयान्नववत्सरोsयम्।।4।।
दीनं न भूयान्न च कार्यहीनं
कुत्रापि लोके पुरुषो न कोsपि।
श्रेष्ठत्वमीयात् सततं हि देश:
शुभाय भूयान्नववत्सरोsयम्।।5।।