राष्ट्राष्टकम्
षड्यन्त्रं न विदन्ति हन्त मुखरा नित्यं विवादे रता:
पङ्कं बन्धुषु संक्षिपन्ति सहसा मन्ये सहासं श्रुता:।
आर्योऽहं न वदन्तु हे सहृदया आर्या वयं भारता
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:! १
जैनोऽहं निगदन्ति केचिदधुना जैना वयं भारता
बौद्धोऽहं प्रवदन्ति केचिदधुना बौद्धा वयं भारता:।
श्रीमन्तो न भवन्तु दूरमतुला वृक्षस्य शाखा वयं
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:!। २
अब्धेर्नैव जलं पृथग् भवति भो व्यर्थप्रलापप्रिया!
आकाशं च घटाभिधं श्रुतमहो तद्वद्वयं सर्वथा।
कालेऽस्मिन् विषवर्द्धनं कुरुत नो यूयं महान्तो बुधा
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:।। ३
ज्ञानं यत्तु विवादमेव तनुतां तद्धीयतां चेतसो
यज्ज्ञानं तनुतां समन्वयमहो तद्धार्यतां साग्रहम्।
राष्ट्रं भारतवर्षमिच्छति पुनर्लब्धुं महोच्चं पदं
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:!।। ४
वेदा बोधसरित्समा मनसि भो रामायणं भारतं
सर्वं भारततत्त्वबोधनिचयं सङ्ख्यापयन्ति ध्रुवम्।
सत्यार्थं ददते महर्षिवचनं सन्मार्गदृष्टिं द्रुतं
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:।। ५
श्रीकृष्णो भगवान् स्वयं रघुपती रामादय: पूजिता:
आर्या: सन्ति न संशय: क्वचिदहो सन्धार्यतां चेतसि।
धृत्वा पादयुगं प्रणौमि भवत: मे प्रार्थना श्रूयतां
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:।। ६
विद्या: सन्ति मनोहरा बहुविधास्तत्र श्रमो दर्श्यतां
लोके सन्ति कलाश्च चित्तहरणे मन्येऽनेकशो मानिन:।
बुद्ध्वापि प्रमुदा सदैव शिशुवन् नो वर्ततां कोऽपि ना
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:।। ७
सद्यो सृष्टमिदं सतां मनसिजं कालुष्यराशिं हरत्
सस्नेहं कुरुतां मतिं सुविमलां राष्ट्रोन्नतेर्वर्द्धिनीम्।
एवं कामयतेऽरविन्द इह भो! युक्त्या सुखं श्रूयतां
व्यर्थं वाचिकमेव युद्धमधुना नारभ्यतां बन्धव:।। ८
**********************
श्रावणमास:
झम् झम् शीतं सलिलं रे!
किमु करवाणि विना त्वां देहे?
क्व च विचराणि विना त्वां गेहे?
चम् चम् नृत्यति शम्पा रे! १
प्रिय!
निपतति हा! जलधारासार:
भवति शरीरे शिलाप्रहार:
शम् शम् कुरुते सर्वो रे! २
प्रिय!
रोदिति शिशुस्त्वदीय: स्वामिन्!
गृहमायाहि विदेशान् मानिन्!
छम् छम् गच्छति लज्जा रे! ३
प्रिय!
उद्याने दोलेयं रुष्टा
पश्यति पन्थानं ते जुष्टा।
धम् धम् पतति शरीरं रे! ४
प्रिय!
कुरु न विलम्बं भज हेरम्बम्
पाहि गृहिन्! गृहिणीमविलम्बम्
बम् बम् ब्रूते शैवो रे! ५
प्रिय!
हातुं नेच्छति चेतो व्रीडां
कर्तुं वाञ्छति नित्यं क्रीडां
कम् कम् कथयति मारो रे! ६
प्रिय!
अरविन्दो रचयति कज्जलिकां
लीन: पश्यति नव्यां कलिकां
डम् डम् प्रविशति कर्णे रे! ७
प्रिय!