शिक्षकान्नो पदं श्रेष्ठसम्मानितं
शिक्षकान्नो परा देवता भूतले।
सत्समाजं विनिर्माति योsहर्निशं
शिक्षकस्सादरं नम्यतेsसौ हृदा।।01।।
मूर्खशिष्यो भवेद्विज्ञशिष्योsथवा
राजपुत्रो भवेद्भृत्यपुत्रस्तथा।
भेददृष्टिं न संस्थापयत्यात्मना
शिक्षकस्सादरं नम्यतेsसौ हृदा।।02।।
पूज्यवाल्मीकिदेवो मया नम्यते
येन रामप्रभु: पाठितः शिक्षकः।
दिव्यसन्दीपनी पूज्यते चेतसा
येन कृष्णोsमरोsध्यापितश्शिक्षकः।।03।।
द्रोणवर्योsधुना स्मर्यते मानसे
येन सम्पाठितश्चार्जुनश्शिक्षक:।
कौशिकस्सन्मुनि: पूज्यते शिक्षक:
येन सन्निर्मितश्श्रीलवश्श्रीकुश:।।05।।
नम्यते श्रीसुराचार्यवर्योsधुना
येन सम्बोधिता देवताश्शिक्षक:।
ध्यायते वै भृगोः पुत्रकश्शिक्षको
येन दैत्यास्समस्तास्स्वयम्पाठिता:।।06।।
नम्यते श्रेष्ठकण्वो मुनिश्शिक्षको
येन सम्पाठिता मेनकापुत्रिका।
द्रोणवर्य: पुनर्नम्यते श्रद्धया
येन कर्णो बली पाठितश्शिक्षक:।।07।।
पूज्यते मातृका नम्यते श्रीपिता
शिक्षकत्वेन तौ देवदेवौ प्रियौ।
प्राप्य याभ्यां जनिं सन्तति: पश्यति
विश्वमेतत्प्रपञ्चात्मकं भूतलम्।।08।।
शिक्षकस्सर्वपल्ली कलामस्तथा
वासुदेवो बुधः कृष्णकान्तो गुरु:।
नम्यते पूज्यते ध्यायते सर्वदा
शिक्षको देवता शिक्षको देवता।।09।।