यद्भावात्मकमस्ति तन्न भविताssभावात्मकं निश्चितं
यच्चाsभावमयं कदापि भवताद्भावस्वरूपन्न तत्।
संसारो विषसदृशोsशिवभरोsभावान्वितोsशाश्वतस्
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।01।।
बाल्ये क्रीडनतत्परोsसि विभवे नार्यां रतो यौवने
वार्द्धक्ये विविधप्ररोगनिरतो मायात्मनाच्छादित:।
विश्वं पङ्कसमं प्रगाढजटिलन्निर्मोचनन्दुष्करं
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।02।।
भोगाद्याति नरस्सदैव नरकं भोगे भवेत्संग्रह:
एतत्संग्रहणञ्च लोभलसितं पापैस्सदा पूरितम्।
पापाद्वै नरकं प्रयाति मनुजो मुक्ति: कुतश्चिन्तयेस्
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।03।।
मत्वा भोगमयं पदार्थनिकरञ्चानन्दितो जायसे
तन्नैवं शुभदञ्च शाश्वतमहो तस्मिन्न भोग्यं सुखम्।
मिथ्याssनन्दमयो भवेर्न मनुज!श्वानस्य शुष्कास्थिवत्
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।04।।
कृष्णं श्वेतमहो भवेन्न हि सखे! दुष्टो यथा सज्जन:
पुष्पन्नो गगने भवेन्न शशके शृंगो यथा निश्चितम्।
तद्वन्नैव जगत्सुखप्रदमिदं मुक्तिप्रदं शान्तिदं
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।05।।
त्वं ब्रह्मांशवरस्सखे! शिवमयश्चानन्दरूपात्मको
मिथ्येदञ्च जगद्धि दोषभरितं त्रैगुण्यभावान्वितम्।
सत्यं ज्ञानमनन्ततत्त्वमखिलं ब्रह्मैव तत्केवलं
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।06।।
निद्रायान्निरतो यथा च मनुजस्स्वप्नं प्रपश्यत्यहो!
स्वप्ने भोजनपानगानमखिलं सत्यं यथा मन्यते।
तद्वत्सर्वमिदञ्जगत्यनुदिनं स्वप्ने स्थितं वर्तते
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।07।।
कश्चिद्धंससुत: प्रमादफलत: काकप्रसङ्घङ्गतो
मत्वा काकसुतञ्च काकसदृशश्चाचारलीनोsभवत्।
तद्वत्काकमयञ्जगत्त्वमसि भो:! हंसस्स्वकं बोधय
भ्राम्यं दु:खमयं प्रपञ्चभरितं मिथ्या जगद्वर्तते।।08।।